EPISODE · Sep 27, 2025 · 3 MIN
अखण्डः विश्वासः
from बालमोदिनी · host सम्भाषणसन्देशः
कुरुक्षेत्रस्य युद्धे कदाचित् भीष्मः प्रतिज्ञातवान् 'अहं श्वः अर्जुनं मारयिष्यामि अथवा तेन पराजितः वा भविष्यामि' इति । तां प्रतिज्ञां श्रुत्वा पाण्डवपक्षे सर्वेऽपि भीताः चिन्तिताः च अभवन् । भगवान् श्रीकृष्णः अपि चिन्तावशात् रात्रौ निद्रां न प्राप्तवान् । सः अर्जुनस्य सेनाशिबिरं गतवान् । अर्जुनः तु गाढनिद्रायां मग्नः आसीत् । साश्चर्यं कृष्णः तम् उत्थाप्य प्रतिज्ञायाः विषये चिन्तितः नास्ति वा इति यदा अपृच्छत् तदा अर्जुनः अवदत् 'स्वस्य भक्तस्य अर्जुनस्य रक्षणभारः भगवतः भवतः एव । मम चिन्ता का अत्र?’ इति । अर्जुनस्य एतादृशं दृढं विश्वासं दृष्ट्वा एव श्रीकृष्णः पार्थसारथिः अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)During the Kurukshetra war, Bhishma vowed, "Tomorrow, I will either kill Arjuna or be defeated by him". Hearing this, the Pandavas were terrified, and even Krishna could not sleep due to worry. Krishna went to Arjuna’s camp, but found him in deep sleep. Surprised, Krishna woke him up and asked if he was not concerned about Bhishma’s vow. Arjuna calmly replied, "The responsibility of protecting me is yours, my Lord. Why should I worry?" Seeing Arjuna’s unwavering faith, Krishna became his charioteer, guiding him throughout the war.
Embed this episode
NOW PLAYING
अखण्डः विश्वासः
No transcript for this episode yet
Similar Episodes
No similar episodes found.