PODCAST · kids
बालमोदिनी
by सम्भाषणसन्देशः
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. E
-
590
भोजने रुचिः त्यज्यताम्
कश्चन महर्षेः पुत्रः उलूकः मन्दमतिः | यद्यपि सः गुरुकुले वसति स्म, तथापि गुरुणा बोधितं किमपि न अवगच्छति स्म | कदाचित् गुरुः अवदत् 'पठने रुचिः नास्ति चेत् गुरुकुलं परित्यज्य गच्छ' इति | विषादेन सः पर्वतशिखरं गत्वा तपः आचरितवान् | वृद्धवेषधारी ईश्वरः आगत्य किञ्चन तत्वं बोधितवान् | तदनन्तरमेव सः अध्ययनं समाप्य ज्ञानी जातः | महर्षिः अपि | तस्य एव नाम कणादः इति यः वैशेषिकदर्शनस्य प्रवर्तकः सन् परमाणुतत्त्वस्य उपस्थापकः जातः |(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Uluka was the son of a sage, but he was not very clever. Even though he studied in a gurukula, he could not understand what his teacher taught. One day, the teacher told him to leave if he was not interested in learning. Feeling very sad, Uluka went to a mountain and prayed deeply. God came in the form of an old man and taught him an important lesson. After that, Uluka studied well, became a wise man, and later became a great sage. He was known as Kanada, who started the Vaisheshika school of philosophy and taught about atoms.
-
589
न अहं भुजङ्गः
बाणभट्टः प्रसिद्धः कविः । चित्रभानुराजदेव्योः पुत्रः सः । चतुर्दशे वयसि पितृवियोगे सति दुःखं विस्मर्तुं देशाटनम् आरब्धवान् । तारुण्ये सः ग्रामम् आगत्य स्वस्य प्रवासानुभवान् जनान् आख्यानरूपेण श्रावयति स्म । ततः सम्राजः श्रीहर्षस्य आस्थानकवित्वं प्राप्तवान् सः अचिरात् एव राज्ञः प्रियः अभवत् । एतेन बाणभट्टेन एव 'हर्षचरितं' 'कादम्बरी' इत्येतौ ग्रन्थौ रचितौ ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Banabhatta was a famous poet. He was the son of Chitrabhanu and Rajadevi. When he was fourteen years old, he lost his father. To overcome his sorrow, he began travelling to different places. In his youth, he returned to his village and used to narrate his travel experiences to people in the form of stories. Later, he became the court poet of Emperor Harsha. Within a short time, he became very dear to the king. Banabhatta wrote the famous works Harshacharita and Kadambari.
-
588
कलियुगभीमः राममूर्तिः
कञ्चन मल्लं जनाः 'कलियुगभीमः' इति निर्दिश्यन्ते स्म | तस्य मल्लस्य नाम कोडिराममूर्तिनायुडु इति | हठयोगस्य अभ्यासं बाल्यात् एव कृत्वा सततेन परिश्रमेण सः भीमबलं सम्पादितवान् आसीत् | बलप्रदर्शनेन यावत् धनं प्राप्यते स्म तत्सर्वं राममूर्तिः दरिद्रेभ्यः ददाति स्म | बहुत्र तेन व्यायामशालाः आरब्धाः | तस्य जीवने घटिता काश्चन घटनाः अस्यां कथायाम् उल्लिखिताः सन्ति |(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)People used to call a wrestler "Kaliyuga Bhima" (the Bhima of the present age). His name was Kodiramamurthy Naidu. From childhood, he practised Hatha Yoga, and through continuous hard work he gained extraordinary strength like Bhima. Whatever money he earned by displaying his strength, Ramamurthy used to give to the poor. He also started many gymnasiums (exercise centres) in different places. Some incidents from his life are described in this story.
-
587
कुलगौरवरक्षणम्
दुर्गादासराथोड: कश्चन अप्रतिमवीर: । कथञ्चित् दुर्गादास: मारणीय: इति मोगलाजना: चिन्तयन्त: आसन् । कदाचित् दुर्गादास: पुण्यक्षेत्रस्य दर्शनसमये एकस्यां रात्रौ कस्यचित् मराठदलपते: गृहे वासम् अकारोत् । स: दुर्गादासं मारयित्वा राज्ञा प्रभूतं धनं स्वीकरिष्यामि इति मत्वा खड्गं स्वीकृत्य दुर्गादासं मारयितुम् उद्युक्तः अभवत् । अग्रे किं जातम् इति स्वारस्यकारीं कथां श्रुत्वा जानीमः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Durgadas Rathod was an unparalleled warrior. The Mughals plotted to kill him. Once, while visiting a sacred place, Durgadas stayed overnight at the house of a Maratha leader. Tempted by the thought of killing Durgadas and gaining great wealth from the king, the host took up his sword, ready to strike. What happened next is a gripping tale that reveals how family honor was preserved.
-
586
किं नु कारणम् ?
भगवान् बुद्ध: श्रावस्त्यां धर्मोपदेशं करोति स्म । एकाग्रचित्ता: सर्वे जना: सकलम् अन्यद् विस्मृत्य भगवत: वचनं श्रुण्वन्ति स्म । तदवसरे बुद्धेन ज्ञातं यत् कश्चन श्रोता अन्यमनस्क: जात: अस्ति इति । तस्य कारणं पृष्ट्वा समाधानं यच्छति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In Śrāvastī, Lord Buddha was delivering a discourse. All the listeners, deeply focused, forgot everything else as they absorbed his words. At that moment, Buddha noticed that one listener had become distracted. He asked the reason, and upon hearing it, gave a fitting solution.
-
585
दुराशाग्रस्तता
मानवेषु आशा भवेत् नाम किन्तु दुराशा कदापि न भवेत् । कदाचित् दुराशाकारणत: यद्यद् लब्धं तत् सर्वं विलुप्तं भवितुम् अर्हति । इयमेव गति: कश्चन निर्धनस्य जाता अस्यां कथायाम् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Among humans, hope is natural, but false or excessive desire should never arise. Often, because of such misguided desire, whatever has been gained may be lost entirely. This was the fate of a poor man in the story.
-
584
दुश्चरितात् निवृत्तिः
कश्चन चोर: । धनापहरणं लुण्ठनं मारणं च तस्य प्रवृत्ति: । एतादृशं जीवनं निन्द्यम् इत्यपि जानाति स्म । जीवने उन्नति: साधनीया इति इच्छया स: महात्मनाम् उपदेशं श्रोतुम् अपि गच्छति । कदाचित् गुरुनानकवर्यस्य उपदेशं श्रोतुं गतवान् । तेन दत्तेन मार्गोपायेन स: चोर: दुश्चरितात् निवृत्तिं प्राप्तवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)There was once a thief whose habits were stealing, looting, and violence. Though he knew such a life was shameful, he longed for upliftment. With this desire, he went to hear the teachings of great souls. One day, he listened to Guru Nanak’s discourse. Following the path shown by him, the thief renounced his misdeeds and found freedom from wrongdoing.
-
583
पुरुषार्थे स्यात् विश्वासः
शकटाल: कश्चन भाग्यवादी । पुरुषप्रयत्नात् अपि भाग्यस्य एव श्रेष्ठता अधिका इत्यत्र तस्य विश्वास: । सर्वस्यापि दैवमेव कारणम् इति वदति स्म । किन्तु केचन तादीयम् एतं विश्वासं खण्डयन्ति स्म । कदाचित् स: महावीरं मुनिं दृष्ट्वा तस्य विश्वास: अनुचित: किम् ? इति अपृच्छत् । तत: प्रचिलितेन प्रश्नोत्तरेण शकटालेन ज्ञातं यत् दैवे विश्वास: भवतु किन्तु पुरुषप्रयत्न: कदापि न परित्यक्तव्य: इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Shakaṭāla was a firm believer in fate. He held that destiny was superior to human effort and claimed that everything was caused by divine will. Yet some challenged this belief. Once, upon meeting Mahavira, he asked whether his conviction was justified. Through a thoughtful exchange, Shakaṭāla came to realize that while faith in destiny may remain, human effort must never be abandoned.
-
582
स्थिरं मनः
सर्वधर्मसम्मेलने भागवहनस्य अनन्तरम् अमेरिकादेशस्य विविधभागेषु विवेकानन्दस्य भाषणस्य आयोजनमपि प्रवृत्तम् । तस्य उपदेशवचनानि श्रोतुं जना: महता प्रमाणेन आयान्ति स्म । भौतिकवादिनां तेषां मनसि विवेकानन्दस्य विषये सन्देह: अपि आसीत् । अत: ते अनेकविधान् प्रश्नान् पृच्छन्ति स्म । अथ कदाचित् तै: निर्णीतं यत् विवेकानन्दस्य परीक्षा करणीया इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)After the World’s Parliament of Religions speech, Swami Vivekananda’s lectures were organized across different parts of America. Crowds gathered in large numbers to hear his teachings. Yet, materialists harbored doubts about him and asked many questions. Eventually, they decided that Vivekananda should be tested.
-
581
मधुप्रियः महर्षिः
आसीत् नैमिषारण्ये कश्चन युवा ऋषिः यस्य न आसीत् किमपि नाम । माधुर्यप्रदानं तस्य ऋषेः स्वभावः । सः अनामिकः ऋषिः कदाचित् दीर्घकालं तपस्याम् अकरोत् । यदा मधुमक्षिकाभिः ऋषेः समाधिभङ्गः जातः तदा श्रीविष्णुः हसन् अवदत् 'ध्यानं कर्तुम् एकस्मिन् स्थाने एव स्थिरतया उपवेष्टव्यम् इति नास्ति । सञ्चरन् अपि मम ध्यानं कर्तुं शक्नोषि' इति । तस्मात् दिनात् आरभ्य सः सदा सञ्चरन् ध्यानम् अकरोत् । माधुर्यात् अन्यत् किमपि अजानन् सः ऋषिः 'मधुप्रियः' इत्येव नाम्ना ख्यातः अभवत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In the Naimisha forest lived a young sage who had no name. Sweetness was his nature. This nameless sage once performed long austerities. When bees disturbed his meditation, Lord Vishnu smiled and said, “Meditation does not require sitting still in one place. Even while moving, you can meditate on me.” From that day onward, the sage always meditated while wandering. Knowing nothing beyond sweetness, he became renowned as Madhupriya (“the one beloved of sweetness”).
-
580
सर्वाधिकं मधुरं किम्?
कदाचित् अकबरः अपृच्छत् 'सर्वाधिकं प्रियं वस्तु किम्’ इति । बीरबलः अवदत् 'मधुरवचनानि एव सर्वाधिकप्रियाणि भवन्ति' इति । अकबरः एतत् न अङ्गीकरोति यतः विशाले जगति मनोहराणि अनेकानि वस्तूनि सन्ति चेदपि मधुरवचनानि एव सर्वाधिकप्रियाणि कथं भवेत् इति । ततः बिरबलः स्वस्य कथनं सप्रमाणं निरूपयति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Perhaps Akbar once asked, ‘What is the most beloved thing?’ Birbal replied, ‘Sweet words are the most beloved of all.’ Akbar did not accept this, saying that in such a vast world there are countless delightful things, so how could sweet words alone be the most beloved? Then Birbal proved his statement with evidence.
-
579
कस्य महत्त्वं कस्मात् ?
अहमदशाहः जन्मना मुसलमानमतीयः । परन्तु महान् कृष्णभक्तः आसीत् । तस्य भक्त्या सन्तुष्टः कृष्णः तदा तदा दर्शनदानेन तम् अनुगृह्णाति स्म । कदाचित् अहमदशाहः उन्नताकारं शिरस्त्रं धृतवान् आसीत् । तदवसरे तस्य पुरतः कृष्णः प्रत्यक्षीभूय सविनोदम् अपृच्छत् 'किम् एतत् शिरस्त्रं मह्यं विक्रेतुम् अर्हेत् भवान् ?’ इति । श्रीकृष्णस्य वचनं श्रुत्वा अहमदशाहे अपि प्रीत्युद्रेकः जातः । ततः जातं तयोः सम्भाषणम् एव एतस्याः कथायाः वस्तु ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Ahmed Shah, though born a Muslim, was a great devotee of Krishna. Pleased with his devotion, Krishna often appeared before him. Once, when Ahmed Shah was wearing a tall turban, Krishna playfully asked: “Will you sell me this turban?” Hearing these words, Ahmed Shah was filled with joy. The conversation that followed between them is the essence of this story.
-
578
विदेही कः ?
जनकमहाराजः 'विदेही' नाम्ना अपि निर्दिश्यते स्म । 'देहधारी अपि भवान् 'विदेही' इति किमर्थं निर्दिश्यते?’ इति कश्चन मन्त्री जनकमहाराजम् अपृच्छत् । तदा राजा केषाञ्चित् दिनानाम् अनन्तरम् उत्तरं वदिष्यामि इति अवदत् । केषाञ्चित् दिनानाम् अनन्तरम् एकेन निर्दर्शनेन 'देहविषये यस्य ममकारः सर्वथा न भवेत् सः उच्यते 'विदेही' इति सिद्धान्तयति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)King Janaka was also called “Videha.” One day, a minister asked him: “Though you have a body, why are you called ‘Videha’?” Janaka replied that he would answer after some days. Later, by an illustration, he explained: “One who has no sense of possessiveness regarding the body is called ‘Videha.’”
-
577
गुणग्राहिता
कदाचित् देवलोके गुणानां विषये चर्चा प्रवृत्ता । 'गुणाः भवेयुः किन्तु गुणग्राहिता तु दुर्लभा' इति कश्चन देवः वदति । तदा अपरः देवः वदति 'मानवानां मध्ये अपि गुणग्राहिणः भवन्ति । एकं तु अहं जानामि' इति । तस्य मानवस्य परीक्षां कर्तुं तौ देवौ वेषान्तरं धृत्वा भूलोकं प्रति आगतौ । परीक्षायाम् उत्तीर्णः जातः सः मानवः । ततः देवौ स्वीयं रूपं धृत्वा तं मानवम् आशिषा अनुगृह्य ततः अदृश्यतां गतवन्तौ ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, in heaven, the gods were discussing virtues. One said: “Virtues may exist, but those who truly appreciate them are rare.” Another replied: “Even among humans there are such people—I know one.” To test him, the two gods disguised themselves and came to earth. The man passed their test. Then the gods revealed their true form, blessed him, and disappeared.
-
576
विनयः विधेयता च
चक्रवर्तिनः मनोः शतरूपायाः च पुत्री देवहूतिः अनुपमसुन्दरी, सौम्यस्वभावा, सकलविद्यापारङ्गता च आसीत् । नारदमहर्षिस्वारा ज्ञातं यत् तस्याः योग्यः वरः कर्दममहर्षिः अस्ति इति । नारदस्य कथनं पुरस्कृत्य मनुः शतरूपा च पुत्र्या देवहूत्या सह कर्दममहर्षेः आश्रमं गतवन्तौ । यद्यपि देवहूत्याः रूपज्ञानादयः सर्वत्र ख्याताः तथापि तस्याः स्वभावः कीदृशः अस्ति इति महर्षिणा लघु परीक्षा कृता । तस्याः स्वभावोत्कृष्टतां दृष्ट्वा महर्षिः सन्तुष्टः जातः । अचिरात् एव देवहूतिकर्दमयोः विवाहः यथाविधि सम्पन्नः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Devahuti, daughter of Manu and Shatarupa, was an incomparable beauty, gentle in nature, and skilled in all arts. Sage Narada knew that Kardama Muni was the right match for her. Following Narada’s advice, Manu and Shatarupa visited Kardama’s hermitage with Devahuti. Though her beauty and learning were well known, Kardama tested her character. Seeing her noble nature, he was pleased, and soon Devahuti and Kardama were married according to proper rites.
-
575
देशीयम् एव उपयोक्तव्यम्
कश्चन विदेशीयः वणिक् बहुविधानि काचनिर्मितानि वस्तूनि राज्ञः रणजितसिंहस्य आस्थानं प्रति आनयति । राजा केनचित् निर्दर्शनेन दर्शयति यत् विदेशीयेन आनीतानि वस्तूनि चित्तकर्षकानि सन्ति चेदपि वास्तवमूल्यरहितानि । अस्माकं देशे निर्मितानि पात्रादीनि वस्तूनि बहूपयोगीनि, नाशानन्तरमपि मूल्यवन्ति । शाश्वतमौल्ययुक्तानि स्वदेशीयानि वस्तूनि एव वयं क्रेतुम् इच्छामः, न तु मोहकमात्राणि विदेशीयवस्तूनि इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A foreign merchant once brought many crafted goods to the court of King Ranjit Singh. The king pointed out that although the foreign items looked attractive, they lacked real value. He explained that utensils and objects made in our own country are more useful and remain valuable even after wear. Therefore, we should buy native goods of lasting worth, not merely charming foreign ones.
-
574
सम्राट् कीदृशः स्यात् ?
कदाचित् कश्चन सम्राट् रथे उपविश्य राजमार्गेण गच्छन् आसीत् । तस्मिन् मार्गे गच्छन्तं कञ्चन सामान्यवेषधारिणं विरागिणम् अपसर्तुं कश्चन भटः प्रयासम् अकरोत् । किन्तु सः विरागी परिवृत्य सम्राजं सकृत् दृष्ट्वा मन्दहासं प्रकटय्य शान्तभावेन यथापूर्वम् अग्रे अगच्छत् । यदा रथः विरागिणः समीपम् आगच्छत् तदा क्रुद्धः सम्राट् अगर्जत् । तदनन्तरं तयोः मध्ये यत् सम्भाषणं प्रचलितं तेन स्वस्य दोषम् अवगत्य सम्राट् रथात् अवतीर्य तं विरागिणम् उपसर्प्य पादौ प्रणम्य क्षमां याचितवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, an emperor was riding in his chariot along the royal road. A guard tried to push aside a wandering ascetic in simple dress. The ascetic turned, looked at the emperor once, smiled gently, and calmly continued walking. When the chariot came near, the emperor grew angry and shouted. In the conversation that followed, the emperor realized his own fault. He stepped down from the chariot, approached the ascetic, bowed at his feet, and asked forgiveness.
-
573
तृतीयं 'नेत्रम्'
मानवानां तृतीयं नेत्रं किम् इति भवद्भिः ज्ञायते वा ? कदाचित् कस्यचन साधोः भगवतः च सम्भाषणसमये भगवान् विवृणोति मानवानां तृतीयस्य नेत्रस्य विषये 'तत् तृतीयं नेत्रम् अस्ति मानवानाम् अन्तः । 'विवेकः' इति तस्य नाम । तस्य अस्तित्वं मानवाः जानन्ति अपि । किन्तु दौर्भाग्य नाम ते तस्य उपयोगं विरलतया एव कुर्वन्ति' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Do you know that humans have a third eye? Once, during a saint’s conversation with God, the Lord explained: “The third eye of humans lies within. It is called ‘viveka’. People know it exists, but unfortunately they rarely use it.”
-
572
यत् ज्ञानम् अन्यान् पराजेतुम्
पूर्वं वामनपण्डितः नामा कश्चन महान् गर्वितः पण्डितः विविधान् ग्रामान् गत्वा पण्डितान् पराजित्य सः स्वस्य जयं प्रख्यापयति स्म । गच्छता कालेन भगद्गीतार्थं विवृण्वन् सः एकां विस्तृतां व्याख्यां लिखितवान् । सा एव व्याख्या 'भगवद्दीपिका' नाम । किन्तु तस्य गर्वस्य अपगमने काचित् स्वासरस्यकारी घटना प्रवृत्ता ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Vamana Pandit was once a very proud scholar, traveling from village to village defeating other scholars and proclaiming his victories. An incident occurred that humbled him and removed his pride. Over time, he wrote an extensive commentary on the Bhagavad Gita called Bhagavad-Dipika.
-
571
जननी जन्मभूमिश्च....
सिराजुद्दौलः बङ्गालस्य राजा । कदाचित् आङ्ग्लेयैः सह यदा युद्धं प्रवर्तमानम् आसीत् तदा सिराजुद्दौलस्य सेनापतिः शत्रुपक्षम् आश्रितवान् । सिराजुद्दौलः महान्तम् आघातं प्राप्य चिन्ताक्रान्तः जातः । एतत् लक्षितवती माता यदा कारणम् अपृच्छत् तदा 'अस्मदीयाः जनाः एव विश्वासघातं कृतवन्तः । देशद्रोहम् आचरितवन्तः । स्वस्य सैन्यम् अल्पम् । शत्रुबलम् अपारम्' इति अवदत् सिराजुद्दौलः । तदा मात्रा प्रेरणदायकानि उपदेशवचनानि उक्तानि ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Siraj-ud-Daulah was the king of Bengal. During a war with the British, his commander betrayed him and joined the enemy. Shocked and worried, Siraj-ud-Daulah told his mother: “Our own people have committed treachery and betrayed the nation. My army is small, the enemy’s force is vast.” Hearing this, his mother gave him words of inspiration and guidance.
-
570
प्रशंसायाः प्राप्त्यर्थम्
कश्चन मूर्तिकारः स्वपुत्रम् उत्तममूर्तिनिर्मातारं करोति । किन्तु पिता तेन पुत्रेण निर्मितासु कमपि दोषं पश्यति स्म । पितुः प्रशंसा कथमपि प्राप्तव्या एव इति सः विशेषप्रयासं करोति स्म । कदाचित् अग्रे पुत्रेण ज्ञातं यत् पित्रा किमर्थं तथा कृतम् इति । गर्वः उन्नतेः बाधकः भवति । सः सफलद्वाराणि पिदधाति । अतः एव पित्रा पुत्रेण निर्मितानां मूर्तीनां प्रशंसा न कृता ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A sculptor trained his son to become a fine artist. Yet the father always found some fault in the statues his son made. The son worked harder, hoping to win his father’s praise. Later he realized why his father acted so: pride is an obstacle to progress, it closes the doors to success. That is why his father never praised his work.
-
569
सा अवध्या वन्द्या च
प्रसिद्धः कथाकारः प्रेमचन्दः गोरक्षपुरे यदा अध्यापनरतः आसीत् तदानीन्तनी घटना एषा । प्रेमचन्दवर्येण काचन गौः पालिता आसीत् । कदाचित् चरणाय प्रेषिता सा गौः जनपदाधिकारिणः गृहपरिसरं प्राविशत् । तद् दृष्ट्वा सः अधिकारी तस्याः गोः मारणाय भुषुण्डिकाम् आनीतवान् । तावता तत्र प्रेमचन्दः आगत्य तस्य मूकजीविनः प्राणं रक्षति । गोमातुः विषये प्रेमचन्दस्य श्रद्धाम् अतिशयप्रीतिं च दृष्ट्वा जनपदाधिकारी महत् आश्चर्यं प्राप्नोत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)This incident took place when the famous writer Premchand was teaching in Gorakhpur. He kept a cow. One day, when sent out to graze, the cow entered the compound of a local officer. Seeing this, the officer brought a gun to kill her. Just then Premchand arrived and saved the life of the mute creature. Witnessing Premchand’s deep reverence and affection for the cow, the officer was greatly astonished.
-
568
पापभीतेः मुक्तिः
रावणस्य दिवङ्गतेः अनन्तरं लङ्कायाः उत्तराधिकारितां स्वीकर्तुं रामः विभीषणं बोधयति । रामस्य अनुरोधात् विभीषणः पट्टाभिषेकम् अङ्गीकृतवान् । यदा सर्वे पट्टाभिषेकविधयः सम्पन्नाः अभवन् तदा विभीषणः अग्रजस्य रावणस्य अन्याय्यमार्गेण अर्जितस्य सम्पत्तेः उत्तराधिकारी सन् पापभीतिम् अनुभवामि इति रामम् अवदत् । तदा रामः विभीषणं पापभीतेः मुक्तिमार्गम् अबोधयत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)After Ravana’s death, Rama asked Vibhishana to accept the throne of Lanka. Vibhishana agreed and was crowned king. When all the coronation rituals were completed, he told Rama: “I feel guilty inheriting the wealth that my elder brother Ravana gained through unjust means.” Rama then explained to Vibhishana the way to be free from the fear of sin.
-
567
चतुरः टोडरमलः
राजा टोडरमलः सम्राजः अकबरस्य आस्थानस्य मन्त्रिषु अन्यतमः । वित्तवाणिज्यादिविभागान् प्राधान्येन सः निर्वहति स्म । 'नरनौल'नामके नगरे तस्य सुहृद् कश्चन श्रेष्ठी आसीत् यस्य गृहं सः सर्वदा गच्छति स्म । कदाचित् श्रेष्ठी दिवं गतः । तस्य सम्पत्तिः दायादैः वञ्चनया वशीकृता । अतः श्रेष्ठीपत्नी दारिद्र्यदशाम् आपन्ना । पूर्वं तस्य पुत्रस्य निमित्तं वधूः निश्चिता आसीत् । इदानीं वधूपक्षीयाः चिन्ताग्रस्ताः अभवन् । यदा ते कुटिलोपायपुरस्सरं विवाहसम्बन्धं छेतुम् इष्टवन्तः तदा टोडरमलः उपायेन विवाहं कारितवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Todarmal, Akbar’s finance minister, had a merchant friend in Narnaul. After the merchant’s death, his property was seized by relatives, leaving the widow poor. Her son’s marriage, once arranged, was now in doubt as the bride’s family tried to break the alliance. Todarmal cleverly ensured the marriage took place.
-
566
सुखं मृगमरीचिकायते
कश्चन राजा वार्धक्ये राज्यं पुत्राय समर्प्य एकाकी वनं प्रति प्रस्थितवान् । तदा कश्चन महात्मा तं राजानं संसारस्य विषये, संसारे सुखस्य विषये च बोधयति - संसारे सुखं मृगमरीचिकायते । सा मृगमरीचिका अस्मान् इतस्ततः भ्रामयति । सत्कर्मानुष्ठानात्, भगवतः ध्यानात् शरणागतितः च सुःखं प्राप्येत इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A king, in old age, handed over his kingdom to his son and went alone to the forest. There, a great sage taught him about the nature of worldly life and happiness: “Worldly happiness is like a mirage. It misleads and confuses us. True happiness comes only through good deeds, meditation on God, and surrender to Him.”
-
565
वास्तविकः सुहृत्
बलभद्रनामा कश्चन वणिक्पुत्रः आसीत् । तस्य सम्पदं दृष्ट्वा अनेके जनाः तस्य सुहृदः अभवन् । तस्य आपणे सर्वदा सम्यक् खादन्तः जल्पन्तः मद्यं पिबन्तः च कालं यापयन्ति स्म । अथ कदाचित् दूरस्थात् ग्रामात् बलभद्रं द्रष्टुम् आगतः मातुलः सम्पत्तेः दुरुपयोगं दृष्ट्वा सुहृदां विषये पूर्वसूचनां ददाति यत् एते वास्तविकाः सुहृदः न इति । तेषां सुहृदां लघुपरीक्षां करोति । तया बलभद्रेण ज्ञायते कः वास्तविकः सुहृद् इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Balabhadra was the son of a merchant. Seeing his wealth, many people became his friends. They spent time in his shop eating, chatting, and drinking. One day, Balabhadra’s uncle came from a distant village. Observing the misuse of wealth, he warned Balabhadra that these were not true friends. To test them, Balabhadra arranged a small trial, through which he discovered who his real friends were.
-
564
जयस्य कारणम्
कश्चन बुद्धिमान् तरुणः सुशीलः अन्नदानस्य निराकरणं करोति । किमर्थम् इति पृष्टे 'एतादृशं दानं दातुः अहङ्कारस्य वृद्ध्यै भवेत्, न तु देशहिताय' इति वदति तरुणः । यदा सः राज्ञः समीपं नीतः तदा तरुणः वदति 'अन्नदानस्य कारणतः युवकाः अलसाः जाताः सन्ति । एतस्य प्रत्यक्षपरिणामः सैनिकेषु जायते । अतः देशे उद्योगावसराः वर्धनीयाः, न तु अन्नदानव्यवस्था' इति । तदनन्तरं यत् अग्रे भविष्यति तेन राजा बोधं प्राप्य यत् आवश्यकं तत् करोति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A wise young man refused to accept food charity. When asked why, he said: “Such charity only increases the donor’s pride, not the nation’s welfare.” Later, when brought before the king, he explained: “Because of free food distribution, young people have become lazy. This directly affects the soldiers. Therefore, the country needs more job opportunities, not food charity.” Hearing this, the king understood and took the necessary action.
-
563
सूत्रद्वयम्
यदा रावणः अन्तिमश्वासोच्छ्वासं कुर्वन् आसीत् तदा रामः सुव्यवस्थितजीवनसञ्चालनस्य सूत्राणि कानि इति ज्ञातुं लक्ष्मणं रावणस्य अन्तिकं प्रेषयति । लक्ष्मणः गत्वा जीवनस्य महत्त्वपूर्णमन्त्रः भव्यसूत्रं च किमस्ति इति रावणं पृच्छति । तदा रावणः स्वस्य जीवनस्य अनुभवाधारेण कथयति 'शिष्टाचारजीवनस्य द्वे सूत्रे स्तः । प्रथमं तु - श्रेष्ठं कार्यं कर्तुं कदापि विलम्बः न करणीयः । द्वितीयं - कुत्सितकार्ये शीघ्रता न करणीया' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)When Ravana was breathing his last, Rama sent Lakshmana to learn from him the principles of proper conduct in life. Lakshmana asked Ravana what the most important lessons were. Ravana, speaking from his life’s experience, said: “There are two rules for a disciplined life. First—never delay in doing a noble deed. Second—never be quick to do a bad deed.”
-
562
विदेशगमने स्पृहा
विदेशगमने स्पृहा जनैः किं किं कारयति इति अनया कथया ज्ञातुं शक्यते । कदाचित् कस्यचन विश्वविद्यालयस्य भौतशास्त्रविभागाय रशियादेशतः एकं निमन्त्रणपत्रम् आगतम् आसीत् । किन्तु तस्य विद्यालयस्य कुलसचिवः तां वार्तां न भौतविभागप्रमुखम् अवदत्, न वा कुलपतिम् । सः कदाचित् सभायां 'रशियादेशस्य विश्वविद्यालयः मां निमन्त्रितवान् अस्ति' इति उद्घोषितवान् । यदा सः देहलीम् अगच्छत् तदा कस्यचन अधिकारिणः मनसि संशयः उत्पन्नः । निमन्त्रणपत्रं परिशील्य तस्य गमनं निवारितवान् अधिकारी ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)This story shows what desire for going abroad can make people do. Once, an invitation letter came from Russia to the Physics Department of a university. But the registrar did not inform the head of the department or the vice chancellor. Later, in a meeting, he announced, “A Russian university has invited me.” When he went to Delhi, an official grew suspicious. After checking the invitation letter, the official stopped his travel.
-
561
निरशनम् इष्टसिद्धिपर्यन्तम् अपि
हरियाणाराज्ये माहराग्रामे निवसन् फूलसिंहः निम्नजातीयानाम् उद्धरणम् एव जीवनस्य लक्ष्यं भावयति स्म । अथ कदाचित् पार्श्वस्थे 'मोट'नामके ग्रामे चर्मकारबान्धवाः स्वीयोपयोगार्थं कूपं खातवन्तः । किन्तु तत् असहमानाः यवनाः मृत्तिकाभिः तं कूपं पिहितवन्तः । भक्तः फूलसिंहः इदम् अन्याय्यं प्रतिरुद्ध्य सङ्ग्रामम् आरब्धवान् । यावत् पर्यन्तं कूपखननं न भविष्यति तावत् पर्यन्तं आहारसेवनं न करिष्यामि इति प्रतिज्ञातवान् । २४ दिनानि अतीतानि । अन्ते सर्वकारः कूपखननाय यवनानाम् अङ्गीकरणे सफलः जातः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In Mahara village of Haryana lived Phool Singh, who dedicated his life to uplifting the lower castes. Once, in the nearby village of Mot, the community of leather workers dug a well for their use. The local Muslims, unable to tolerate this, filled the well with mud. Phool Singh opposed this injustice and began a struggle. He vowed not to eat until the well was restored. For 24 days he fasted. In the end, the authorities succeeded in compelling the Muslims to allow the well to be dug again.
-
560
देशभक्तिः
भारतस्य स्वातन्त्र्यसङ्ग्रामकाले बहवः देशभक्ताः यथाशक्ति सङ्ग्रामे भागं वहन्तः स्वस्य देशभक्तिं प्रकटितवन्तः । तेषु अन्यतमः आसीत् कश्चन नापितः यः चेन्नैनगरे (पूर्वं मद्रास् इति तस्य नाम आसीत्) वसति स्म । अनया कथया सः कथं सङ्ग्रामे भागम् ऊढवान् इति ज्ञातुं शक्नुमः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)During India’s freedom struggle, many patriots expressed their devotion to the nation by participating in the movement in whatever way they could. Among them was a barber living in Chennai (then called Madras). This story shows how he too played his part in the struggle.
-
559
न आवश्यकं किमपि
कश्चन वणिक् केनचन ज्योतिषेण उक्तम् इति कारणेन महता प्रमाणेन अन्नवितरणं कर्तुम् आरब्धवान् । तस्य मनसि चिन्ता आसीत् 'मम षष्ठपरम्परायां जातानां का अवस्था भवेत्?’ इति । कदाचित् अन्नवितरणसमये कञ्चन निर्धनम् अन्नं नेतुम् आह्वयति सः वणिक् । किन्तु मध्याह्नाय यावत् आवश्यकम् तावत् प्राप्तम् अस्ति । सायङ्कलनिमित्तमपि गृहे तण्डुलादिकम् अस्ति इति निर्धनः वदति । तदा वणिक् चिन्तयति 'एषः निर्धनः श्वस्तनव्यवस्थाविषयकं न चिन्तयति, अहं तु षष्ठपरम्परीयाणां विषये चिन्तयन् अस्मि । धिक् माम्' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A merchant, following an astrologer’s advice, began distributing food in large amounts. He worried about what would happen to his descendants six generations later. One day, while giving food, he invited a poor man to take some. The poor man replied that he already had enough for the day and rice at home for the evening. The merchant then thought: “This poor man does not worry about tomorrow, while I am anxious about six generations ahead. Shame on me!”
-
558
प्रतिमायां सजीवः देवः
यद्यपि शिवकुमारेण आ गतेभ्यः विंशतेः वर्षेभ्यः लिपिकाररूपेण कार्यं कृतं तथापि पदोन्नतिः न प्राप्ता आसीत् । सहोद्योगिनः मार्गदर्शनेन सः रामं पूजितवान् । वर्षात् अधिकः कालः अतीतः चेदपि तेन किमपि फलं न प्राप्तम् । अपरस्य सहोद्योगिनः मार्गदर्शनेन श्रीकृष्णस्य पूजनम् आरब्धवान् । अग्रे किं भवति इति कथां श्रुत्वा जानन्तु ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Although Shivakumar had worked as a clerk for twenty years, he never received a promotion. Following the advice of a colleague, he began worshiping Rama. Even after more than a year, he saw no result. Then, guided by another colleague, he started worshiping Krishna. What happens next is the subject of the story.
-
557
कृतज्ञताभावः कथम् उह्येत ?
१८७३ तमवर्षीया घटना एषा । राजप्रतिनिधिः लार्ड् नार्थबुक् नामा कदाचित् स्वामिनः दयानन्दस्य मेलनम् अभिलषितवान् । राजप्रतिनिधिना योग्यः एव सत्कारः व्यवस्थापितः आसीत् । सत्कारस्य समये सम्भाषणावसरे दयानन्दस्वामी निर्भयेन स्वस्य अभिप्रायं प्रकटयति । तस्य निर्भयं वचनं श्रुत्वा राजप्रतिनिधिः क्षणं यावत् आश्चर्येण स्तब्धः जातः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)This event took place in 1873. The Viceroy, Lord Northbrook, once wished to meet Swami Dayananda. A proper reception was arranged by the Viceroy. During the meeting, in the course of conversation, Swami Dayananda fearlessly expressed his own views. Hearing his bold words, the Viceroy was for a moment astonished and stood speechless.
-
556
परमसन्तृप्तः कः?
काशीराज्ये कस्मिंश्चित् ग्रामे आसीत् सुमतिनामा कश्चन निर्धनः परोपकारनिरतः दैवभक्तः यः भिक्षान्नेन जीवनं निर्वहति स्म । 'जीवने परमसुखी कः' इति ज्ञातुम् इच्छा जाता तस्य । सः जनान् प्रष्टुम् च आरब्धवान् यत् तेषां जीवनं सुखमयं स्यात् वा ? इति । पृष्ट्वा पृष्ट्वा अन्ते कश्चन अवदत् यत् सुमतिः नाम कश्चन यः अविवाहितः परोपकारी भिक्षान्नजीवी च अस्ति सः एव सुखी स्यात् इति । अन्यस्य मुखात् स्वस्य प्रशंसां श्रुत्वा सुमतिः सन्तृप्तिं प्राप्य ततः निर्गतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a village of Kashi, there lived a poor man named Sumati. He was devoted to God, lived on alms, and was always engaged in helping others. One day, he wished to know who is truly the happiest in life. He began asking people whether their lives were happy. After asking many, one person finally said: “There is a man named Sumati, unmarried, devoted to service, and living on alms—he alone is truly happy.” Hearing his own praise from another’s mouth, Sumati felt content and went away.
-
555
नृगस्य शापः
कदाचित् वनविहारार्थं गतवन्तः द्वारकावासिनः तरुणाः कस्मिंश्चित् कूपे कृकलासम् एकम् अपश्यन् । कूपात् कृकलासम् उद्धर्तुम् अशक्नुवन् ते एतं विषयं कृष्णं निवेदितवन्तः । कृष्णः कूपसमीपम् आगत्य लीलया तं कृकलासं कूपात् उद्धृत्य भूमौ अस्थापयत् । तावता कृकलासः देवरूपं प्राप्य कृष्णः साष्टाङ्गं नमस्कृतवान् । इक्ष्वाकोः पुत्रः नृगः शापकारणात् कृकलासः जातः आसीत् । कृष्णस्य करस्य स्पर्शनम् एव तस्य शापविमोचनमार्गः आसीत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, some young men of Dwaraka went to the forest for recreation. They saw a lizard in a well. Unable to lift it out, they reported the matter to Krishna. Krishna came to the well and playfully lifted the lizard out, placing it on the ground. Immediately, the lizard assumed a divine form and bowed to Krishna. It was revealed that he was King Nṛga, son of Ikshvaku, who had become a lizard due to a curse. The touch of Krishna’s hand freed him from the curse.
-
554
दौर्भाग्यकरं मुखम्
वीरदेवः इति कश्चन दानशीलः राजा । प्रतिदिनं सः उषसि उत्थाय दर्पणे मुखं पश्यति, ततः विहारार्थम् उद्यानं गच्छति च । एवं करणात् सौभाग्यं सिद्ध्येत् इति तस्य चिन्तनम् । अथ एकदा सः स्वमुखम् अदृष्ट्वा एव उद्यानं गतः । ततः किं भवति इति कथायाः विषयः वर्तते ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Viradeva was a generous king. Every morning he looked at his face in the mirror and then went to the garden, believing this routine would bring him good fortune. One day, however, he went to the garden without looking at his face. What happened next is the subject of the story.
-
553
सज्जनतायाः फलम्
सुन्दरनामकः कश्चन धनिकः दैवभक्तः सदाचारी च आसीत् । स्वस्य ग्रामे मन्दिरमेकं निर्मापितवान् । धनव्यवस्थायाः देवालयस्य च निर्वहणार्थं कस्यचन निष्कपटस्य योग्यस्य जनस्य आवश्यकता आपतत् । अतः सुन्दरेण तादृशस्य अन्वेषणम् आरब्धम् । तस्य स्थानस्य प्राप्त्यर्थं बहुभिः अहमहमिकया अग्रे आगतम् । किन्तु सुन्दरः सर्वान् तिरस्कृतवान् । अन्ते कश्चन निर्धनः तरुणः चितः सुन्दरेण ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)There was a wealthy man named Sundar, devoted to God and virtuous in conduct. In his village, he built a temple. For managing the finances and administration of the temple, a sincere and capable person was needed. Therefore, Sundar began searching for such a man. Many came forward, each eager to claim the position, but Sundar rejected them all. In the end, he chose a poor young man.
-
552
मयि ते, तेषु चाप्यहम्
कदाचित् नारदः श्रीकृष्णमन्दिरम् अगच्छत् । 'भगवान् पूजां करोति । कृपया प्रतीक्षताम्' इत्यवदत् सेवकः । 'यं त्रैलोक्यं पूजयति, सः श्रीकृष्णः कं वा पूजयेत्?’ इति नारदः अचिन्तयत् । नारदेन अनुरोधे कृते श्रीकृष्णः तं पूजागृहम् अनयत् । एकस्यां लघुतमायां सुवर्णमञ्जूषायाम् अविद्यत अल्पमात्रं मृत्तिका । ये साधुपुरुषाः श्रीकृष्णस्य साहाय्यम् अकुर्वन् तेषां चरणधूलिं मञ्जूषायां संस्थाप्य पूजयति कृष्णः इति ज्ञातवान् नारदः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, Narada went to Krishna’s temple. The attendant said, “The Lord is performing worship, please wait.” Narada wondered, “Krishna, whom the three worlds worship, whom could He be worshiping?” At Narada’s request, Krishna led him into the shrine. There, in a small golden casket, was a little dust. Narada learned that Krishna was worshiping the dust of the feet of those noble souls who had helped Him. It was the sacred foot dust of His devotees that Krishna honored.
-
551
अप्रतिमशूरः भण्डारीरामः
भण्डारीरामः द्वितीयजागतिकयुद्धकाले जपानीयान् विरुद्ध्य प्रवर्तमाने युद्धे बलूचीदलस्य सदस्यः सन् सः रणरङ्गम् अगच्छत् । समुन्नते पर्वतशिखरे जपानीयसैन्यस्य एकं शिबिरम् आसीत् । तस्य पर्वतस्य आरोहणम् आसीत् नितरां कष्टसाध्यम् । प्रतिपदं कष्टम् अनुभवन्तः भण्डारीरामः बलूचीदलीयाः च शत्रुशिबिरं वशीकृतवन्तः । सर्वथा असहायकस्थितौ स्वस्य प्राणापायम् अपि अविगण्णय शत्रुशिबिरस्य वशीकरणस्य प्रमुखं पात्रम् ऊढवता भण्डारीरामेण 'विक्टोरियाशौर्यप्रशस्तिः' प्राप्ता ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)During the Second World War, Bhandari Ram, a member of the Baluch regiment, went to the battlefield against the Japanese. On a high mountain peak, there was a Japanese camp. Climbing that mountain was extremely difficult. Step by step, enduring hardships, Bhandari Ram and the Baluch soldiers captured the enemy camp. In a situation of complete helplessness, disregarding even the risk to his own life, Bhandari Ram played the leading role in conquering the enemy camp. For this bravery, he was awarded the “Victoria Cross.”
-
550
आत्मनः परिष्काराय प्रयासः
महेन्द्रनाथगुप्तः रामकृष्णपरमहंसस्य शिष्यः । सः वादशीलः । सर्वदा कमपि अंशम् अधिकृत्य सः परमहंसेन सह वादं करोति स्म । अथ कदाचित् सः परमहसम् अपृच्छत् 'भगवान् साकारः उत निराकारः?’ इति । अग्रे तयोः मध्ये सुदीर्घा चर्चा अभवत् । महेन्द्रनाथः परमहंसेन बोधितमेव मनसि आकलयन् ततः निर्गतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Mahendranath Gupta was a disciple of Sri Ramakrishna Paramahamsa. He was fond of debate and often argued with the Master on various topics. Once, he asked, “Is God with form or without form?” A long discussion followed between them. Mahendranath, reflecting deeply on what the Master taught, left with the lesson impressed upon his mind.
-
549
किं भगवन्निन्दया ?
शाकविक्रयिकस्य रामस्य शकटः मार्गे स्थिते कर्दमे समाश्लिष्टः अभवत् । साहाय्यार्थं न कोऽपि दृष्टः । भगवन्निन्दां कुर्वन् आसीत् । यदा भगवान् प्रत्यक्षः अभवत् तदा सः रामम् अवदत् 'त्वं स्वप्रयासं कृतवान् किम् ? प्रयत्नं कुरु' इति । 'कष्टसमये आदौ स्वप्रयासः करणीयः । आत्मनः प्रयासं विना ईश्वरनिन्दया किं प्रयोजनम् ?’ इति विचिन्त्य रामः भगवन्तं क्षमां सम्प्रार्थ्य स्वस्कन्धेन शकटम् उत्थापयितुं पूर्णबलं प्रयुक्तवान् । अल्पेन एव प्रयत्नेन शकटः कर्दमात् बहिः आगतः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Rama, a vegetable seller, once had his cart stuck in mud on the road. No one came to help, and he began blaming God. When the Lord appeared, He asked Rama, “Have you made any effort yourself? Try!” Thinking, “In times of trouble, one must first make one’s own effort; blaming God without effort is useless,” Rama prayed for forgiveness and then used all his strength to lift the cart with his shoulder. With only a little effort, the cart came out of the mud.
-
548
भक्तश्रेष्ठः पुण्डलीकः
आसीत् कृष्णावतारकाले पुण्डलीको नाम कश्चन मातापित्रोः भक्तः । कदाचित् श्रीकृष्णः तम् अनुग्रहीतुम् इच्छन् चन्द्रभागनदीतीरस्थं पुण्डलीकाश्रमं प्रति निर्गतः । पुण्डलीकस्य पितृसेवां दृष्ट्वा सन्तुष्टः भगवान् 'वरं वृणीष्व' इत्यवदत् । तदा पुण्डलीकेन सविनयम् उक्तः 'लोके पितृभक्तिमहत्त्वं प्रदर्शयितुं भवता अत्रैव देव्या सह स्थातव्यम्' इति । भक्तस्य इच्छां परिपालयता कृष्णेन तत्रैव स्थितम् । तदेव पण्ढरापुरम् इति ख्यातम् जातम् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)During the time of Krishna’s incarnation, there lived a devotee named Pundalik, devoted to serving his parents. Once, Krishna wished to bless him and went to Pundalik’s hermitage on the bank of the Chandrabhaga river. Seeing Pundalik’s devoted service to his parents, the Lord was pleased and said, “Ask for a boon.” Humbly, Pundalik replied, “To show the world the greatness of devotion to parents, you must remain here with the Goddess.” Respecting the devotee’s wish, Krishna stayed there. That place became famous as Pandharpur.
-
547
पुरुषप्रयासः मुख्यः
कदाचित् उभौ राजानौ युद्धस्य आरम्भात् पूर्वं कस्यचन महात्मनः आशीर्वादं प्राप्तुम् इष्टवन्तौ । पूर्वराजस्य कृते महात्मा अवदत् 'भवतः विजयः सुलभसाध्यः' इति । अन्यस्य देशस्य राज्ञः कृते अवदत् महात्मा 'भवतः विजयः कष्टसाध्यः' इति । सः राजा स्वदेशं गत्वा सर्वविधसन्नाहं कर्तुं सेनाप्रमुखान् अवदत् । युद्धे पूर्वदेशस्य पराजयः अभवत् । यदा सः महात्मानं पराजयस्य कारणम् अपृच्छत् तदा महात्मा अवदत् 'भवता जयप्राप्त्यर्थं परिश्रमः एव न कृतः' इति । अतः पुरुषप्रयासः अतीव मुख्यः इति अनया कथया ज्ञातुं शक्नुमः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, before the start of a war, two kings sought the blessing of a great sage. To the first king, the sage said, “Your victory will be easily achieved.” To the other king, he said, “Your victory will be difficult.” The second king returned to his country and instructed his generals to prepare thoroughly. In the battle, the first king was defeated. When he asked the sage the reason for his loss, the sage replied, “You did not make any effort to achieve victory.” Thus, this story teaches us that human effort is of utmost importance.
-
546
भगवतः प्रसन्नतायै
कश्चन धनिकः भगवते अर्पयितुं देवालयस्य पुरतः स्थितात् आपणात् कमलपुष्पम् एकं क्रेतुम् ऐच्छत् । विंशतिरूप्यकाणि अधिकं मूल्यम् अस्ति इत्यतः दशरूप्यकाणि स्वीक्रियन्ताम् इति आपणिकम् अवदत् धनिकः । तावता तत्र आगतः राजकुमारः प्रेयसीनिमित्तं तत् एव कमलपुष्पं क्रेतुम् ऐच्छत् । धनिकराजकुमारयोः मध्ये वादविवादः जायते ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A wealthy man wished to offer a lotus flower to God. He went to a shop near the temple to buy one. The shopkeeper said the price was twenty rupees, but the rich man insisted it should be accepted for ten. Just then, a prince arrived, wanting to buy the same lotus for his beloved. A dispute arose between the rich man and the prince over the flower.
-
545
समाजस्य उत्तरदायित्वम्
हेन्रि ला ग्वार्डिवर्यः जनसेवायां विशेषतया आसक्तः । सः १९३४ तः १९४५ पर्यन्तं न्यूयार्क्-नगरस्य प्रमुखः सन् तस्य नगरस्य सर्वाङ्गीणाम् उन्नतिं साधितवान् । सः कदाचित् न्यायाधीशत्वेन यदा कार्यं करोति स्म तदा प्रवृत्ता घटना एषा ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Henry La Guardia was especially devoted to public service. From 1934 to 1945, being the head of New York City, he accomplished the city’s overall progress. Once, while he was serving as a judge, this incident took place.
-
544
धनं देशसेवायै
कस्मिंश्चित् विद्यालये आचार्यः पृच्छति यत् 'यदि मार्गे वज्रं प्राप्येत तर्हि भवन्तः किं कुर्युः?’ इति । एकैकः छात्रः एकैकविधं धनस्य उपयोगम् अवदत् । अन्ते कश्चन छात्रः अवदत् 'अहं वज्रं तस्य स्वामिने अर्पयिष्यामि । यदि सः न लभ्यते तर्हि वज्रम् आरक्षकाधीनं सर्वकाराधीनं वा करिष्यामि । यदि तस्य विक्रयणं करणीयम् इति आपतेत् तर्हि तस्य मूल्यराशेः उपयोगं देशसेवायै, निर्धनानां साहाय्याय, जनोपकराय च करिष्यामि' इति । तस्य नाम अस्ति 'गोपालकृष्णगोखले' यः 'महादेशभक्तत्वेन ख्यातः जातः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a school, a teacher asked, “If you found a diamond on the road, what would you do?” Each student gave different answers about using the wealth. Finally, one student said, “I would return the diamond to its owner. If the owner cannot be found, I would hand it over to the authorities. If it must be sold, I would use the money for serving the nation, helping the poor, and public welfare.” That student was Gopal Krishna Gokhale, later renowned as a great patriot of India.
-
543
शुद्धहृदयैः निर्मिताः कासराः
'बूढासागरः’, ‘सरमनसागरः', 'कैरायीसागरः', ‘कुण्डमसागरः' इत्येते चत्वारः विशालसरोवराः अद्यापि पाटनक्षेत्रे सुस्थितौ सन्ति । तेषां निर्माणं के कृतवन्तः ? कथं कृतवन्तः ? तेषाम् इतिहासः एव अस्याः कथायाः वस्तु वर्तते ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In Patan, four large lakes—Buddhasagar, Sarmanasagar, Kairayisagar, and Kundamasagar—still exist today. The story tells of who built them, how they were constructed, and their historical background.
-
542
उपहारत्रयम्
कस्मिंश्चित् उदारचरिते राजनि प्रजाजनाः विशेषादरवन्तः आसन् । तस्मिन् राज्ये कश्चन निन्दाशीलः जनः अपि आसीत् । राजा एतत् ज्ञात्वा कदाचित् गोधूमपूर्णम् एकं स्यूतम्, एकं फेनकम्, एकं खण्डशर्करायुक्तं स्यूतं च निन्दकाय प्रेषितवान् । सः सन्तुष्टः निन्दकः अचिन्तयत् 'मम योग्यताम् अभिज्ञाय आदरार्थम् एतानि वस्तूनि महाराजेन प्रेषितानि' इति । किन्तु यदा तस्य सुहृत् 'एतानि उपायनानि राज्ञा विशेषाभिप्रायेण प्रेषितानि सन्ति' इति उक्त्वा तेषाम् अभिप्रायान् अकथयत् तदा सः निन्दकः स्वस्य व्यवहारं स्मरन् महतीं लज्जाम् अनुभूतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a certain kingdom, the people greatly respected their noble king. Yet among them lived a man fond of criticism. Learning of this, the king once sent him three gifts: a sack of wheat, a piece of cloth, and a bag of sugar. The critic, pleased, thought the king had recognized his worth. But when a friend explained the deeper meaning behind these gifts, the critic realized they symbolized the flaws in his behavior. Remembering his own conduct, he felt deep shame.
-
541
कर्तव्यनिष्ठा
कस्यचन कार्यस्य निमित्तं राज्यात् बहिः गतवतः शिवराजस्य प्रत्यागमने विलम्बः जातः । यतः सूर्यास्ततः सूर्योदयं यावत् दुर्गात् बहिः गमनम्, अन्तःप्रवेशः च निषिद्धः इति नियमः आसीत् अतः मुख्यप्रवेशद्वारं पिहितम् आसीत् । संन्यासिनः वेषं धृत्वा प्रवेशद्वारस्य समीपं आगतः शिवराजः । अन्तःप्रवेशं निराकृतवान् द्वारपालकः । किञ्चित्कालानन्तरं शिवराजः संन्यासिवेषम् अपनीय स्वस्य निजरूपं दर्शितवान् । तथापि द्वारपालकेन द्वारोद्घाटनं नैव कृतम् । तस्य कर्तव्यनिष्ठां धैर्यञ्च दृष्ट्वा अग्रे तस्मै उपायनं दत्तवान् शिवराजः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, King Shivaji returned late from a journey outside the fort. By rule, entry and exit were forbidden between sunset and sunrise, so the main gate was closed. Disguised as a monk, Shivaji approached the gate, but the guard refused him entry. Later, Shivaji revealed his true identity, yet the guard still did not open the gate, firmly adhering to his duty. Impressed by the guard’s discipline and courage, Shivaji rewarded him with a gift.
We're indexing this podcast's transcripts for the first time — this can take a minute or two. We'll show results as soon as they're ready.
No matches for "" in this podcast's transcripts.
No topics indexed yet for this podcast.
Loading reviews...
ABOUT THIS SHOW
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. E
HOSTED BY
सम्भाषणसन्देशः
Loading similar podcasts...