Skip to content
Dasakam 018 - All Slokas episode artwork

Dec 1, 2024 2 min

Dasakam 018 - All Slokas

from Nārāyaṇīyaṃ - Learn to Chant

जातस्य ध्रुवकुल एव तुङ्गकीर्ते- रङ्गस्य व्यजनि सुत: स वेननामा । यद्दोषव्यथितमति: स राजवर्य- स्त्वत्पादे निहितमना वनं गतोऽभूत् ॥१॥ पापोऽपि क्षितितलपालनाय वेन: पौराद्यैरुपनिहित: कठोरवीर्य: । सर्वेभ्यो निजबलमेव सम्प्रशंसन् भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥२॥ सम्प्राप्ते हितकथनाय तापसौघे मत्तोऽन्यो भुवनपतिर्न कश्चनेति । त्वन्निन्दावचनपरो मुनीश्वरैस्तै: शापाग्नौ शलभदशामनायि वेन: ॥३॥ तन्नाशात् खलजनभीरुकैर्मुनीन्द्रै- स्तन्मात्रा चिरपरिरक्षिते तदङ्गे । त्यक्ताघे परिमथितादथोरुदण्डा- द्दोर्दण्डे परिमथिते त्वमाविरासी: ॥४॥ विख्यात: पृथुरिति तापसोपदिष्टै: सूताद्यै: परिणुतभाविभूरिवीर्य: । वेनार्त्या कबलितसम्पदं धरित्री- माक्रान्तां निजधनुषा समामकार्षी: ॥५॥ भूयस्तां निजकुलमुख्यवत्सयुक्त्यै- र्देवाद्यै: समुचितचारुभाजनेषु । अन्नादीन्यभिलषितानि यानि तानि स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥६॥ आत्मानं यजति मखैस्त्वयि त्रिधाम- न्नारब्धे शततमवाजिमेधयागे । स्पर्धालु: शतमख एत्य नीचवेषो हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥७॥ देवेन्द्रं मुहुरिति वाजिनं हरन्तं वह्नौ तं मुनिवरमण्डले जुहूषौ । रुन्धाने कमलभवे क्रतो: समाप्तौ साक्षात्त्वं मधुरिपुमैक्षथा: स्वयं स्वम् ॥८॥ तद्दत्तं वरमुपलभ्य भक्तिमेकां गङ्गान्ते विहितपद: कदापि देव । सत्रस्थं मुनिनिवहं हितानि शंस- न्नैक्षिष्ठा: सनकमुखान् मुनीन् पुरस्तात् ॥९॥ विज्ञानं सनकमुखोदितं दधान: स्वात्मानं स्वयमगमो वनान्तसेवी । तत्तादृक्पृथुवपुरीश सत्वरं मे रोगौघं प्रशमय वातगेहवासिन् ॥१०॥

Episode details come from the podcast's RSS feed.

Embed this episode

Ready to play

Dasakam 018 - All Slokas

0:00 2:30

No transcript yet.

Requests help us decide what to transcribe next.

Frequently asked questions

How long is this episode of Nārāyaṇīyaṃ - Learn to Chant?

This episode is 2 minutes long.

When was this Nārāyaṇīyaṃ - Learn to Chant episode published?

This episode was published on December 1, 2024.

Can I download this Nārāyaṇīyaṃ - Learn to Chant episode?

Yes. Use the download control on the episode player to save the publisher-provided media file.