PODCAST · religion
Nārāyaṇīyaṃ - Learn to Chant
by Kumar Vembu
हरि ओम् || Hari Om This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ. Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas Reciting Narayaneeyam is said to have many benefits, including: Divine fervor: It is said to create divine fervor. Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it. Health and longevity: It is said to be a tonic for longevity, health, and happiness. Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments. Strength and humility: It is said to give strength and humility. Different perspective: It is said to give a different persp
Episodes
-
Dasakam 100 - Sloka 11
अज्ञात्वा ते महत्वं यदिह निगदितं विश्वनाथ क्षमेथा: स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् । द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम् ॥११॥ अज्ञात्वा ते महत्वंnot knowing Thy greatnessयत्-इह निगदितंwhat ever here is…
more -
Dasakam 100 - Sloka 10
योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो भक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् । नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिन्धो हृत्वा निश्शेषतापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥१०॥ योगीन्द्राणांfor the great yogisत्वत्-अङ्गेषु-among Thy body partsअधिक-सुमधुरंmost...
-
Dasakam 100 - Sloka 09
मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं पादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् । उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाऽश्रितानां सन्तापध्वान्तहन्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥९॥ मञ्जीरं मञ्जु-नादै:-इवthe anklets, by their sweet sound, as ifपद-भजनं श्रेय(Thy) feet...
-
Dasakam 100 - Sloka 08
ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया: विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ । आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपालीसमुद्ग- च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे ॥८॥ ऊरू चारू तव-ऊरूstout handsome Thy thighsघन-मसृण-रुचौsolid and soft and charmingचित्त-चोरौ...
-
Dasakam 100 - Sloka 07
अङ्गे पञ्चाङ्गरागैरतिशयविकसत्सौरभाकृष्टलोकं लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् । शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं ध्यायामो दीप्तरश्मिस्फुटमणिरशनाकिङ्किणीमण्डितं त्वां ॥७॥ अङ्गे पञ्च-अङ्ग-रागै:-on Thy body, of five ingredients, the uguentअतिशय-विकसत्-सौरभ-very much...
-
Dasakam 100 - Sloka 06
उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमलं कण्ठदेशं वक्ष: श्रीवत्सरम्यं तरलतरसमुद्दीप्रहारप्रतानम् । नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल- ल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥६॥ उत्सर्पत्-कौस्तुभ-emitting (from the) Kaustubhaश्री-ततिभि:-अरुणितंlustrous ray collection (by which)...
-
Dasakam 100 - Sloka 05
बाहुद्वन्द्वेन रत्नोज्ज्वलवलयभृता शोणपाणिप्रवाले- नोपात्तां वेणुनाली प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् । कृत्वा वक्त्रारविन्दे सुमधुरविकसद्रागमुद्भाव्यमानै: शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनै: सिञ्च मे कर्णवीथीम् ॥५॥ बाहु-द्वन्द्वेनby two handsरत्न-उज्ज्वल-वलय-भृताstudded shining bangles...
-
Dasakam 100 - Sloka 04
उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली- व्यालोलत्कर्णपाशाञ्चितमकरमणीकुण्डलद्वन्द्वदीप्रम् । उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्त:- प्रीतिप्रस्यन्दिमन्दस्मितमधुरतरं वक्त्रमुद्भासतां मे ॥४॥ उत्तुङ्ग-उल्लासि-नासंhigh prominent beautiful noseहरि-मणि-मुकुर-emerald...
-
Dasakam 100 - Sloka 03
हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभ्रूविलासै- रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो ते । सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥३॥ हृद्यं पूर्ण-अनुकम्पा-attractive, full of compassion'sअर्णव-मृदु-लहरी-oceans' gentle...
-
Dasakam 100 - Sloka 02
नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकै: पिञ्छजालै: । मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं स्निग्धश्वेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥२ नीलाभं कुञ्चिताग्रंdark and curly in frontघनम्-अमलतरंthick and very cleanसंयतं…
more -
Dasakam 100 - Sloka 01
अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् । तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै- रावीतं नारदाद्यैर्विलसदुपनिषत्सुन्दरीमण्डलैश्च ॥१॥ अग्रे पश्यामि तेज:in front (of me) I see a radianceनिबिडतर-कलाय-(like that of) very thick Kalaaya (blue...
-
Dasakam 099 - Sloka 010
अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वं व्यक्तं चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् । सर्वोत्कृष्टामभीष्टां तदिह गुणरसेनैव चित्तं हरन्तीं मूर्तिं ते संश्रयेऽहं पवनपुरपते पाहि मां कृष्ण रोगात् ॥१०॥ अव्यक्तं ते स्वरूपंnon-manifested Thy nature (the Nirguna form)दुरधिगमतमंis very...
-
Dasakam 099 - Sloka 09
यत्तु त्रैलोक्यरूपं दधदपि च ततो निर्गतोऽनन्तशुद्ध- ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान् किमन्यत् । स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥९॥ यत्-तु त्रैलोक्य-रूपं दधत्-because of, the three world's form, taking onअपि च तत:...
-
Dasakam 099 - Sloka 08
मूर्ध्नामक्ष्णां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं तत्प्रोत्क्रम्यापि तिष्ठन् परिमितविवरे भासि चित्तान्तरेऽपि । भूतं भव्यं च सर्वं परपुरुष भवान् किञ्च देहेन्द्रियादि- ष्वाविष्टोऽप्युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव ॥८॥ मूर्ध्नाम्-अक्ष्णांof heads, of eyesपदानां वहसि खलुof feet,...
-
Dasakam 099 - Sloka 07
हे लोका विष्णुरेतद्भुवनमजनयत्तन्न जानीथ यूयं युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् । नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपै: प्राणप्रीत्येकतृप्ताश्चरथ मखपरा हन्त नेच्छा मुकुन्दे ॥७॥ हे लोकाO men!विष्णु:-एतत्-भुवनम्-अजनयत्-Vishnu this world createdतत्-न जानीथ यूयंthat do not know...
-
Dasakam 099 - Sloka 06
आप: सृष्ट्यादिजन्या: प्रथममयि विभो गर्भदेशे दधुस्त्वां यत्र त्वय्येव जीवा जलशयन हरे सङ्गता ऐक्यमापन् । तस्याजस्य प्रभो ते विनिहितमभवत् पद्ममेकं हि नाभौ दिक्पत्रं यत् किलाहु: कनकधरणिभृत् कर्णिकं लोकरूपम् ॥६॥ आप: सृष्टि-आदि-जन्या:water, in the creations beginning was createdप्रथमम्-अयि विभोat…
more -
Dasakam 099 - Sloka 05
नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं देव श्रेयांसि विद्वान् प्रतिमुहुरपि ते नाम शंसामि विष्णो । तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या- प्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥५॥ नो जात:-जायमान:-अपि चnot,those born and also those being born...
-
Dasakam 099 - Sloka 04
विष्णो: कर्माणि सम्पश्यत मनसि सदा यै: स धर्मानबध्नाद् यानीन्द्रस्यैष भृत्य: प्रियसख इव च व्यातनोत् क्षेमकारी । वीक्षन्ते योगसिद्धा: परपदमनिशं यस्य सम्यक्प्रकाशं विप्रेन्द्रा जागरूका: कृतबहुनुतयो यच्च निर्भासयन्ते ॥४॥ विष्णो: कर्माणिMahaa Vishnu's deedsसम्पश्यत मनसिreflect on, in the mindसदा यै:...
-
Dasakam 099 - Sloka 03
हे स्तोतार: कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभि: । जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वं हे विष्णो कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ॥३॥ हे स्तोतार: कवीन्द्रा:-O you poet laudatorsतम्-इह खलुHim, here indeedयथा चेतयध्वे तथा-एवin...
-
Dasakam 099 - Sloka 02
आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूते- र्भक्तात्मा विष्णवे य: प्रदिशति हविरादीनि यज्ञार्चनादौ । कृष्णाद्यं जन्म यो वा महदिह महतो वर्णयेत्सोऽयमेव प्रीत: पूर्णो यशोभिस्त्वरितमभिसरेत् प्राप्यमन्ते पदं ते ॥२॥ आद्याय-अशेष-कर्त्रेfor the Eternal, (the one) who created...
-
Dasakam 099 - Sloka 01
विष्णोर्वीर्याणि को वा कथयतु धरणे: कश्च रेणून्मिमीते यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् योसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां त्वद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाह: ॥१॥ विष्णो:-वीर्याणिthe glories of Vishnuक: वा कथयतुwho can recountधरणे: क:-च...
-
Dasakam 098 - Sloka 011
दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं सम्भ्राम्यत् क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् । चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं विष्णो कारुण्यसिन्धो पवनपुरपते पाहि सर्वामयौघात् ॥११॥ दुर्वारं द्वादश-आरंirreversible, with twelve spokes (12...
-
Dasakam 098 - Sloka 010
सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् । निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्त- र्निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥१०॥ सत्यं शुद्धं विबुद्धंeternal, pure, ever awakeजयति तव वपु:-shines Thy...
-
Dasakam 098 - Sloka 09
त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् । तिस्रोवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमाक्रान्तविश्वं त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥९॥ त्रैलोक्यं भावयन्तंthe three worlds creatingत्रिगुणमयम्-इदंcomprising of...
-
Dasakam 098 - Sloka 08
यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये यद्भीता: पद्मजाद्या: पुनरुचितबलीनाहरन्तेऽनुकालम् । येनैवारोपिता: प्राङ्निजपदमपि ते च्यावितारश्च पश्चात् तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण कुर्म: प्रणामम् ॥८॥ यत्-भीत्या-उदेति सूर्य:by whose fear rises the sunदहति च दहन:and burns fireवाति...
-
Dasakam 098 - Sloka 07
भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकाव- त्तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते । स्वप्नद्रष्टु: प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्व- द्विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण तस्मै नमस्ते ॥७॥ भूषासु स्वर्ण-वत्-वाin ornaments like gold,orजगति घट-शराव-आदिकेin the...
-
Dasakam 098 - Sloka 06
सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा धत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् । विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥६॥ सत्त्वेन-असत्तया वाby existing or non existingन च खलु सदसत्त्वेनand not indeed by (both)...
-
Dasakam 098 - Sloka 05
शब्दब्रह्मेति कर्मेत्यणुरिति भगवन् काल इत्यालपन्ति त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् । वेदान्तैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण तस्मै नमस्ते ॥५॥ शब्द-ब्रह्म-इतिPrimeval Sound, asकर्म-इति-अणु-इतिKarma as, as Atom,भगवन्Lord!काल...
-
Dasakam 098 - Sloka 04
मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदै- र्भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्नसङ्कल्पकल्पम् । भूय: संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥४॥ मायायां बिम्बित:-त्वंin Maayaa reflected Thouसृजसि महत्-अहङ्कार-do project Mahat,...
-
Dasakam 098 - Sloka 03
नो तिर्यञ्चन्न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुंमांसं न द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहु: । शिष्टं यत् स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत् कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥३॥ नो तिर्यञ्चम्-न मर्त्यंnot bird or animal nor human beingन च सुरम्-असुरम्and…
more -
Dasakam 098 - Sloka 02
जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन् लोकानामूतये य: स्वयमनुभजते तानि मायानुसारी । विभ्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्भुतात्मा तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो नमस्ते ॥२॥ जन्म-अथ: कर्म नामbirth, then activity certainlyस्फुटम्-इहclearly hereगुण-दोष-आदिकं(comprising of)…
more -
Dasakam 098 - Sloka 01
यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एत- द्योऽस्मादुत्तीर्णरूप: खलु सकलमिदं भासितं यस्य भासा । यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनीन्द्रा: नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण तस्मै नमस्ते ॥१॥ यस्मिन्-एतत्-विभातंon which (base) this (universe) is manifestedयत:-इदम्-अभवत्-from which...
-
Dasakam 097 - Sloka 010
त्र्यंशेस्मिन् सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं तेभोऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोक: । तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी सच्चित्ब्रह्माद्वयात्मा पवनपुरपते पाहि मां सर्वरोगात् ॥१०॥ त्र्यंशे-अस्मिन् सत्यलोकेin three parts in this...
-
Dasakam 097 - Sloka 09
गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी सिद्धानेवास्य दत्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् । एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा- न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥९॥ गौर्या सार्धंwith Gauriतत्-अग्रे पुरभित्-अथin front of him Shiva...
-
Dasakam 097 - Sloka 08
दृष्ट्वा त्वां हृष्टरोमा त्वरितमुपगत: स्प्रष्टुकामो मुनीन्द्र: श्वासेनान्तर्निविष्ट: पुनरिह सकलं दृष्टवान् विष्टपौघम् । भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षै- र्मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ॥८॥ दृष्ट्वा त्वाम्seeing Theeहृष्ट-रोमाfull of...
-
Dasakam 097 - Sloka 07
याते त्वय्याशु वाताकुलजलदगलत्तोयपूर्णातिघूर्णत्- सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन् वर्षकोटी: । दीन: प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालं त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् ॥७॥ याते त्वयि-आशुas Thou left, soonवात-आकुल-the winds were highly disturbedजलद-गलत्-(by them)…
more -
Dasakam 097 - Sloka 06
प्रीत्या नारायणाख्यस्त्वमथ नरसख: प्राप्तवानस्य पार्श्वं तुष्ट्या तोष्टूयमान: स तु विविधवरैर्लोभितो नानुमेने । द्रष्टुं माय़ां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मा मायादु:खानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतो: ॥६॥ प्रीत्या नारायण-आख्य:-being pleased, called Naaraayanaत्वम्-अथ नरसख:Thou then...
-
Dasakam 097 - Sloka 05
मार्कण्डेयश्चिरायु: स खलु पुनरपि त्वत्पर: पुष्पभद्रा- तीरे निन्ये तपस्यन्नतुलसुखरति: षट् तु मन्वन्तराणि । देवेन्द्र: सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन् योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जनं निर्जयेत् क: ॥५॥ मार्कण्डेय:-चिर-आयु:Maarkandeya, ever livingस खलु पुन:-अपि त्वत्-पर:he indeed...
-
Dasakam 097 - Sloka 04
तं चैनं भक्तियोगं द्रढयितुमयि मे साध्यमारोग्यमायु- र्दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् । मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चै: सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥४॥ तं च-एनं भक्ति-योगंand that this Bhakti Yogaद्रढयितुम्-अयिto be firmly…
more -
Dasakam 097 - Sloka 03
त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् । त्वद्धर्मस्यास्य तावत् किमपि न भगवन् प्रस्तुतस्य प्रणाश- स्तस्मात्सर्वात्मनैव प्रदिश मम विभो भक्तिमार्गं मनोज्ञम् ॥३॥ त्वत्-भाव: यावत्-Thy-ness, untilएषु स्फुरति न विशदंin all these, does…
more -
Dasakam 097 - Sloka 02
त्वय्येव न्यस्तचित्त: सुखमयि विचरन् सर्वचेष्टास्त्वदर्थं त्वद्भक्तै: सेव्यमानानपि चरितचरानाश्रयन् पुण्यदेशान् । दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमान- स्पर्धासूयादिदोष: सततमखिलभूतेषु संपूजये त्वाम् ॥२॥ त्वयि-एव न्यस्त-चित्त:in Thee alone (with) fixed mindसुखम्-अयि विचरन्happily, O Thou!...
-
Dasakam 097 - Sloka 01
त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं यत् ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदा: । त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं प्राहुर्नैगुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥१॥ त्रैगुण्यात्-भिन्न-रूपंbecause of the three gunas, different kindsभवति…
more -
Dasakam 096 - Sloka 010
ऐल: प्रागुर्वशीं प्रत्यतिविवशमना: सेवमानश्चिरं तां गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् । त्वद्भक्तिं प्राप्य पूर्ण: सुखतरमचरत्तद्वदुद्धूतसङ्गं भक्तोत्तंसं क्रिया मां पवनपुरपते हन्त मे रुन्धि रोगान् ॥१०॥ ऐल: प्राक्-उर्वशींKing Pururavas (son of Ilaa) long ago, (towards)...
-
Dasakam 096 - Sloka 09
कश्चित् क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौघै: प्रागेवं प्राह विप्रो न खलु मम जन: कालकर्मग्रहा वा। चेतो मे दु:खहेतुस्तदिह गुणगणं भावयत्सर्वकारी- त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो तादृशी चित्तशान्तिम् ॥९॥ कश्चित् क्लेश-अर्जित-some one, with hard work earnedअर्थ-क्षय-विमल-मति:-money,...
-
Dasakam 096 - Sloka 08
निर्विण्ण: कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं जातश्रद्धोऽपि कामानयि भुवनपते नैव शक्नोमि हातुम् । तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान् पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गा: ॥८॥ निर्विण्ण: कर्ममार्गेdisinterested in the path of Vedic ritualsखलु...
-
Dasakam 096 - Sloka 07
ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन् गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्ति: कराग्रे । त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो- रभ्यासादाशु शक्यं तदपि वशयितुं त्वत्कृपाचारुताभ्याम् ॥७॥ ज्ञानाय-एव-अति-यत्नंfor knowledge alone great effortमुनि:-अपवदतेsage Vyaas...
-
Dasakam 096 - Sloka 06
अव्यक्तं मार्गयन्त: श्रुतिभिरपि नयै: केवलज्ञानलुब्धा: क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति । दूरस्थ: कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग- स्त्वामूलादेव हृद्यस्त्वरितमयि भवत्प्रापको वर्धतां मे ॥६॥ अव्यक्तं मार्गयन्त:the non-manifest (Brahman) seekingश्रुतिभि:-अपि नयै:through Vedas...
-
Dasakam 096 - Sloka 05
ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते तस्मात्तत्रैव जन्म स्पृहयति भगवन् नाकगो नारको वा । आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथा: ॥५॥ ज्ञानं त्वत्-भक्ततां वाknowledge or devotion to Theeलघु सुकृत-वशात्easily as a result of...
-
Dasakam 096 - Sloka 04
ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र ताव- न्निर्विण्णानामशेषे विषय इह भवेत् ज्ञानयोगेऽधिकार: । सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता: नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥४॥ ज्ञानं कर्म-अपि भक्ति:-knowledge, action and devotionत्रितयम्-इहthese...
-
Dasakam 096 - Sloka 03
धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या कुर्वन्तोऽन्तर्विरागे विकसति शनकै: सन्त्यजन्तो लभन्ते । सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥३॥ धर्मं-वर्ण-आश्रमाणांof the (4) castes and the (4)...
We're indexing this podcast's transcripts for the first time — this can take a minute or two. We'll show results as soon as they're ready.
No matches for "" in this podcast's transcripts.
No topics indexed yet for this podcast.
Loading reviews...
ABOUT THIS SHOW
हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
Divine fervor: It is said to create divine fervor.
Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
Health and longevity: It is said to be a tonic for longevity, health, and happiness.
Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
Strength and humility: It is said to give strength and humility.
Different perspective: It is said to give a different persp
HOSTED BY
Kumar Vembu
CATEGORIES
Loading similar podcasts...