EPISODE · Dec 1, 2024 · 3 MIN
Dasakam 022 - All Slokas
from Nārāyaṇīyaṃ - Learn to Chant
अजामिलो नाम महीसुर: पुरा चरन् विभो धर्मपथान् गृहाश्रमी । गुरोर्गिरा काननमेत्य दृष्टवान् सुधृष्टशीलां कुलटां मदाकुलाम् ॥१॥स्वत: प्रशान्तोऽपि तदाहृताशय: स्वधर्ममुत्सृज्य तया समारमन् । अधर्मकारी दशमी भवन् पुन- र्दधौ भवन्नामयुते सुते रतिम् ॥२॥स मृत्युकाले यमराजकिङ्करान् भयङ्करांस्त्रीनभिलक्षयन् भिया । पुरा मनाक् त्वत्स्मृतिवासनाबलात् जुहाव नारायणनामकं सुतम् ॥३॥दुराशयस्यापि तदात्वनिर्गत- त्वदीयनामाक्षरमात्रवैभवात् । पुरोऽभिपेतुर्भवदीयपार्षदा: चतुर्भुजा: पीतपटा मनोरमा: ॥४॥अमुं च संपाश्य विकर्षतो भटान् विमुञ्चतेत्यारुरुधुर्बलादमी । निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥५॥भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिता: । न निष्कृति: किं विदिता भवादृशा- मिति प्रभो त्वत्पुरुषा बभाषिरे ॥६॥श्रुतिस्मृतिभ्यां विहिता व्रतादय: पुनन्ति पापं न लुनन्ति वासनाम् । अनन्तसेवा तु निकृन्तति द्वयी- मिति प्रभो त्वत्पुरुषा बभाषिरे ॥७॥अनेन भो जन्मसहस्रकोटिभि: कृतेषु पापेष्वपि निष्कृति: कृता । यदग्रहीन्नाम भयाकुलो हरे- रिति प्रभो त्वत्पुरुषा बभाषिरे ॥८॥नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान् महिमास्य तादृश: । यथाग्निरेधांसि यथौषधं गदा - निति प्रभो त्वत्पुरुषा बभाषिरे ॥९॥इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते । भवत्स्मृतिं कंचन कालमाचरन् भवत्पदं प्रापि भवद्भटैरसौ ॥१०॥स्वकिङ्करावेदनशङ्कितो यम- स्त्वदंघ्रिभक्तेषु न गम्यतामिति । स्वकीयभृत्यानशिशिक्षदुच्चकै: स देव वातालयनाथ पाहि माम् ॥११॥
NOW PLAYING
Dasakam 022 - All Slokas
No transcript for this episode yet
Similar Episodes
Mar 26, 2026 ·1m
Mar 19, 2026 ·34m
Feb 18, 2026 ·11m
Feb 11, 2026 ·45m