EPISODE · Jun 24, 2026 · 3 MIN
लक्ष्मणस्य हासः
from बालमोदिनी · host सम्भाषणसन्देशः
चतुर्दशवर्षात्मकं वनवासं समाप्य आगतवतः श्रीरामस्य राज्याभिषेकमहोत्सवः सम्पन्नः । लक्ष्मणः, भरतः, शत्रुघ्नः, वानरवीराः च सर्वे सीतारामौ परितः स्थितवन्तः आसन् । तदा झटिति लक्ष्मणः किमपि भाषितवान् । सर्वेषां दृष्टिः तस्य उपरि अपतत् । सः किञ्चित् विहस्य जृम्भणं कृत्वा निद्रामग्नः अभवत् । हासः किमर्थम् इति सर्वेषाम् अपि कौतुकम् आश्चर्यं च । एकैकस्यापि एकैकरीत्या चिन्तनम् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)After completing fourteen years of exile, Rama’s coronation was celebrated. Lakshmana, Bharata, Shatrughna, and the valiant monkeys all stood around Sita and Rama. Suddenly Lakshmana spoke something, drawing everyone’s attention. Then, smiling slightly, he yawned and fell asleep. All were curious and astonished, each pondering in their own way the reason for his smile.
Embed this episode
NOW PLAYING
लक्ष्मणस्य हासः
No transcript for this episode yet
Similar Episodes
No similar episodes found.