EPISODE · Jun 22, 2026 · 2 MIN
वास्तविकः त्यागः
from बालमोदिनी · host सम्भाषणसन्देशः
राजा वसुधेन्द्रः प्रतापवान् धार्मिकः प्रजावत्सलः च । राज्ञः महान् खेदः नाम अपत्यं नास्ति इति । पुत्रकामेष्टियागं कृतवान् । यागस्य अन्ते अशरीरवाणी श्रुता 'औरसपुत्रप्राप्तिभाग्यं नास्ति तव । अतः योग्यः बालकः दत्तकरूपेण स्वीक्रियताम्' इति । देशस्य उत्तराधिकारी सुयोग्यः भवेत् इत्यतः दत्तकत्वयोग्यस्य अन्वेषणाय राजा स्वयं निर्गतः । कश्चन तरुणः दृष्टः यः त्यागात् एव मोक्षः इति चिन्तयति स्म । तं तरुणं दत्तकरूपेण स्वीकृत्य राज्यपालनादिकं तस्मै समर्प्य राजा पत्न्या सह वनं गतवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)King Vasudhendra was brave, pious, and caring, but childless. After performing the Putrakāmeṣṭi sacrifice, a divine voice told him he would not have a natural son and should adopt a worthy boy. Seeking a capable heir, he found a youth devoted to renunciation. The king adopted him, entrusted the kingdom to him, and retired to the forest with his queen.
Embed this episode
NOW PLAYING
वास्तविकः त्यागः
No transcript for this episode yet
Similar Episodes
No similar episodes found.