EPISODE · Sep 15, 2026 · 3 MIN
विचक्षणस्य गुरोः विलक्षणः शिष्यः
from बालमोदिनी · host सम्भाषणसन्देशः
महाप्राज्ञः प्रज्ञाचक्षुः दण्डिवरेण्यः मधुरानगर्यां निवसति स्म । कदाचित् कश्चन युवा संन्यासी तदीयं कुटीरम् आगछत् । तस्य नाम आसीत् दयानन्दः । सरस्वतादयः ग्रन्थाः अपि पठिताः आसीत् तेन । 'यदि मम अनुशासनम् इष्यते तर्हि तान् अनार्षान् ग्रन्थान् यमुनायां प्रवाह्य अत्र आगम्यताम्' इति गुरुः अवदत् । तथैव अकरोत् सः संन्यासी । सन्तुष्टः गुरुः दयानन्दस्य पाठम् आरब्धवान् । सकृत् द्विः वा श्रुतं पाठं स्मृतिपथे स्थापयति स्म सः । सः शिष्यः एव आर्यसमाजस्य संस्थापकः दयानन्दसरस्वतीमहर्षिः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)The great blind scholar Dandi Swami lived in Mathura. One day, a young monk named Dayananda Saraswati came to him. Dayananda had already studied many books. The teacher told him that if he truly wished to become his student, he should throw those non-Vedic books into the Yamuna River and then return. Dayananda obeyed. Pleased with his dedication, the teacher began teaching him. Dayananda had an excellent memory and could remember lessons after hearing them only once or twice. This devoted student later became the founder of the Arya Samaj.
Embed this episode
Ready to play
विचक्षणस्य गुरोः विलक्षणः शिष्यः
No transcript for this episode yet
Similar Episodes
No similar episodes found.