PODCAST · kids
बालमोदिनी
by सम्भाषणसन्देशः
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. E
-
569
वास्तविकं शूरत्वम्
महान् शूरः अस्मि अहम् इति मन्यमानं सिकन्दरमहाराजं कश्चन महात्मा शूरः कः भवति इति बोधयति । लोके सप्त प्रकाराः शूराः भवन्ति इति विवृणोति । अन्ते सः पृच्छति 'एतेषु सप्तसु प्रकारेषु भवान् कीदृशप्रकारकः शूरः?’ इति । महात्मनः निष्ठुराणि वचनानि श्रुतवतः महाराजस्य ज्ञानोदयः अभवत् । सः महात्मानं प्रणम्य मौनेन ततः प्रत्यगच्छत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Alexander the Great, considering himself the greatest warrior, was once taught by a sage what true heroism means. The sage explained that there are seven kinds of heroes in the world and finally asked, “Among these seven, what kind of hero are you?” Hearing the sage’s stern words, the king experienced an awakening. He bowed to the sage and returned silently.
-
568
होलिका
होलिकापर्वणः पृष्ठभूमिकायाम् अस्ति काचित् कथा । होलिका हिरण्यकशिपोः भगिनी । अग्निः यथा न दहेत् तथा वरः प्राप्तः आसीत् होलिकया । अतः हिरण्यकशिपुः होलिकायाः साहाय्येन पुत्रः प्रह्लादः दग्धव्यः इति अचिन्तयत् । प्रह्लादेन सह सा अग्निं प्रविष्टवती । वरस्य नियमः आसीत् यत् एकाकितया प्रविष्टा ताम् अग्निः न दहति इति । अतः सा दग्धा जाता । विष्णोः अनुग्रहस्य कारणतः प्रह्लादः कामपि पीडाम् अप्राप्य हसन् अग्नितः बहिः आगतवान् । अयमेव प्रसङ्गः अद्य होलैकापर्वरूपेण आचर्यते ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In the background of the Holika festival lies a story. Holika was the sister of Hiranyakashipu. She had received a boon that fire would not burn her. Hiranyakashipu, therefore, planned to burn his son Prahlāda with Holika’s help. She entered the fire carrying Prahlāda. But the boon had a condition: if she entered alone, the fire would not harm her. Since she carried Prahlāda, she was burned. By the grace of Lord Viṣṇu, Prahlāda came out smiling, unharmed. This very event is commemorated today as the festival of Holika.
-
567
पठितः पाठः
वसन्तः कश्चन विख्यातः मल्लः । कदाचित् सः गुरुणा बलभीमेन सह मल्लयुद्धं कृत्वा विजयं प्राप्तुम् इच्छति । यद्यपि तस्य वचनम् अकल्पितम् अनुचितं च आसीत् तथापि गुरुः तेन सह मल्लयुद्धं करोति । मल्लयुद्धे केनचित् कालेन एकां विलक्षणां चातुरीम् उपयुज्य बलभीमः वसन्तं पराजयति । क्रुद्धः वसन्तः 'या नूतना चातुरी विद्या प्रयुक्ता सा भवता न पाठिता एव' इति यदा वदति तदा गुरुः वदति 'सा चातुरी मया एतस्य दिनस्य कृते रक्षिता आसीत् तव गर्वभङ्गाय । गुरुः भवति वन्दनीयः । तं पराजेतुम् इच्छा कदापि न करणीया' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Vasant was a famous wrestler. Once, he wished to defeat his teacher Balabhima in a wrestling match. Though his words were improper, the teacher agreed to wrestle with him. During the contest, Balabhima used a special skill and defeated Vasant. Angered, Vasant said, “This new technique was never taught to me.” The teacher replied, “I kept this skill for today, to humble your pride. A teacher is to be revered; the desire to defeat him should never arise.”
-
566
आत्मविश्वासः
इयं कथा आत्मविश्वासस्य उत्तमम् उदाहरणं भवितुम् अर्हति । यः परेषां साहाय्येन विना स्वकार्ये उद्यतः भवेत् सः एव सफलतां प्राप्नोति । यः आत्मस्थैर्येण स्वप्रयत्नेन कार्यतत्परः सन् अग्रे सरेत् सः विफलतां न प्राप्नोति कदाचिदपि । अस्यां कथायां कश्चन राजा सैनिकेषु अन्यतमस्य कस्यचन सैनिकस्य परीक्षां करोति । प्रथमं भीतिम् अनुभवति सः सैनिकः । अनन्तरं सः धैर्यं प्राप्य परीक्षायां सफलः भवति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)This story is an excellent example of self-confidence. One who undertakes his work without relying on others alone attains success. He who, with inner steadiness and his own effort, remains devoted to his task, never meets with failure. In this story, a king tested one of his soldiers. At first the soldier felt fear, but later, gaining courage, he succeeded in the test.
-
565
निगृहीतः कः आसीत् ?
कदाचित् स्वातन्त्र्यान्दोलने कस्यचन उच्चाधिकारिणः मृत्युः सञ्जातः । अनेन रुष्टे सर्वकारेण आन्दोलननेता निगृह्य न्यायालये उपस्थापितः । अयम् आसीत् क्रान्तिकारी ऊधमसिंहः । अस्मिन् सेनाधिकारिणः डायरस्य हननस्य आरोपः अवर्तत । काचित् युवत्याः प्रयासेन एव सः निगृहीतः आसीत् । ऊधमसिंहः जानाति स्म सा का इति । तथापि नार्याम् अस्त्रोत्थापनम् अस्माकं भारतीयसंस्कृतौ नास्ति इति ज्ञातवान् सः तस्यै युवत्यै कोपम् अकृत्वा तां न प्रहृतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)During the freedom movement, the death of a certain high officer occurred. Angered by this, the government arrested the movement’s leader and brought him to court. This was the revolutionary Udham Singh, accused of killing General Dyer. He was captured through the effort of a young woman. Udham Singh knew who she was, yet, understanding that in Indian culture weapons are never raised against women, he did not show anger toward her nor harm her.
-
564
दृष्टिशोधनम्
कदाचित् ब्रह्मविदम् आचार्यम् उपसर्प्य कौचित् ब्रह्मचारिणौ ब्रह्मविद्याम् उपदेष्टुं प्रार्थितवन्तौ । तदा आचार्यः तयोः परीक्षां कृतवान् । तयोः एकः एव परीक्षाम् उत्तीर्णः सन् ब्रह्मविद्यालाभार्थम् अधिकारी जातः । ततः आचार्यः 'सर्वत्रापि सर्वस्मिन्नपि वस्तुनि भगवन्तं पश्येत् । कस्मिंश्चिपि असत्कर्मणि प्रवृत्तिं न दर्शयेत् । तदा एव भगवान् तव सम्मुखे तिष्ठेत् .....’ इत्यादिभिः वचनैः तं ब्रह्मचारिणं ब्रह्मविद्यालाभस्य उपायं बोधयति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, two students approached a spiritual teacher, requesting instruction in sacred knowledge. The teacher tested them, and only one passed the examination, becoming eligible to learn Brahmavidyā. The teacher then instructed him: “See the Divine in everything, in every object. Never engage in unrighteous deeds. Only then will the Lord truly stand before you…” With such words, the teacher revealed the path to attaining Brahmavidyā.
-
563
मन्त्रिणः चातुर्यम्
राजा विक्रमसिंहः कलापोषकः आसीत् । प्रजापालने राज्ञः अधिकावधानं नास्ति इति कारणतः दुःखितः मन्त्री महाराजः विवेकमार्गं प्रति अनेतव्यः इति दिवानिशम् अचिन्तयत् । सः कञ्चन उपायं कृत्वा महाराजं कृषिकक्षेत्रं प्रति अनयत् । 'एते कृषिकाः परोक्षरीत्या कलाकाराः एव । एतषां साहाय्यं करणीयम्' इति अवद्त् मन्त्री । ततः ग्रामेषु सर्वत्र जलाशयाः, कूपाः, तडागाः च निर्मिताः राज्ञा । सर्वे अपि जनाः सन्तुष्टाः सन्तः मन्त्रिणः चातुर्यं बुद्धिमत्तां च अश्लाघयन्त । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)King Vikramasinha was a patron of the arts. Because he paid little attention to the welfare of his people, the minister was troubled and constantly thought of guiding the king toward wisdom. By a clever plan, he took the king to the fields and said, “These farmers are, in a hidden way, artists too. They deserve support.” The king then had reservoirs, wells, and ponds built throughout the villages. All the people were pleased, and they praised the minister’s cleverness and wisdom.
-
562
कामनाहङ्कारयोः जयाय
कस्यचन परोपकारस्य साधकस्य अनुष्ठानक्रमं व्यवहारं च जनाः बहुधाः प्रशंसन्ति स्म । तस्य साधकस्य पार्श्वे सर्वदा जलपूर्णः कलशः, अग्निपूर्णा अङ्गारधानी च भवति स्म । तस्य कारणं यदा कश्चन भक्तः अपृच्छत् तदा साधकः अवदत् 'अहं मम कामनाः जले मज्जयितुम् इच्छामि । अहङ्कारश्च दग्धुम् इच्छामि । जलकलशस्य अग्नेः च दर्शनात् आत्मना करणीयस्य कार्यस्य स्मरणं भवति । दुर्गुणाः निवारणीयाः इत्येतत् कदापि विस्मृतं न भवेत्' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)People greatly praised the conduct and practice of a certain devotee devoted to service. Beside him there was always a water-filled pot and a vessel of burning coals. When a follower asked the reason, the devotee replied: “I wish to drown my desires in water and burn my ego in fire. The sight of the water pot and the fire reminds me of the duties I must perform. One should never forget that vices must be removed.”
-
561
श्रमस्य मूल्यम्
कदाचित् वेषान्तरं धृत्वा अटितवतः राज्ञः अश्वशकटस्य नेमिः चक्रात् पृथक् अभवत् । यदा लोहकारम् अन्विष्यन् गच्छति राजा तदा अद्य विरामदिनं, सहायकः नास्ति इति अवद्त् लोहकारः । अतः साहाय्यार्थं राजा एव भस्रिकादण्डचालनम् अङ्गीकृतवान् । जीवने ऐदम्प्राथम्येन श्रमः कृतः, श्रमस्य आनन्दः च ज्ञातः राज्ञा । श्रमस्य महत्त्वं बोधितवते लोहकाराय राजा गुरुदक्षिणारूपेण षट् सुवर्णनाणकानि दत्त्वा ततः निर्गतः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, while wandering in disguise, a king’s chariot wheel broke. Seeking a blacksmith, the king was told it was a holiday and no assistants were available. To help, the king himself worked the bellows. Through this, he personally experienced the value and joy of labor. Realizing its importance, the king rewarded the blacksmith with six gold coins as a teacher’s fee and departed.
-
560
दुष्टनिग्रहः
काचित् मूषिका पत्या सह ग्रामे न्यवसत् । कश्चन धूर्तः बिडालः काननात् आगत्य तस्याः शिशून् भक्षयति स्म । अनेन दुःखिता मूषिका इदं गृहं परित्यज्य अन्यत्र गच्छामः इति पतिम् अवदत् । किन्तु सः मूषकः पत्नीं कष्टेन समाधाय एतस्याः समस्यायाः निवारणाय कमपि उपायं चिन्तयाम इति अवदत् । सः एकम् उपायं कृत्वा तस्य दुष्टबिडालस्य निग्रहम् अकरोत् । सर्वे मूषकाः प्रसन्नाः अभवन् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A certain mouse lived in a village with her husband. A cunning cat came from the forest and ate her children. Distressed, the mouse told her husband, “Let us leave this house and go elsewhere.” But the husband consoled her and said, “I will think of some way to solve this problem.” He devised a plan and subdued the wicked cat. All the mice became happy.
-
559
गर्वः न उचितः
दम्भोद्भवः इति कश्चन राजा 'मत्सदृशः वीरः त्रिषु लोकेषु अपि नास्ति' इति भावयन् गर्वेण व्यवहरति स्म । कदाचित् कश्चन सज्जनः अवदत् 'गन्धमादनपर्वते उभौ तपोनिरतौ नरनारायणौ स्तः । तौ जेतुं कोऽपि न शक्नुयात्' इति । अथ कदाचित् गन्धमादनपर्वतम् अगच्छत् दम्भोद्भवः ताभ्यां सह युद्धं कर्तुम् । नरः कांश्चन दर्भान् अभिमन्त्र्य भूमौ अक्षिपत् । तदनन्तरक्षणे एव दम्भोद्भवस्य मुखं नासिका कर्णौ नेत्रे च दर्भाङ्कुरैः पूर्णानि । एतस्मात् भीतः दम्भोद्भावः नरं क्षमाम् अयाचत् । नरनारायणोः आशीर्वादं प्राप्य ततः प्रतिगतः दम्भोद्भवः अनन्तरकाले प्रजावत्सलः इति सत्कीर्तिं प्राप्तवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)King Dambhodbhava, proud and boastful, believed that no warrior in the three worlds equaled him. A noble man told him: “On Mount Gandhamadana dwell the sages Nara and Narayana, whom none can defeat.” Dambhodbhava went there to challenge them. Nara, chanting mantras, cast blades of sacred grass upon the ground. Instantly, shoots sprouted and filled the king’s mouth, nose, ears, and eyes. Terrified, Dambhodbhava begged Nara for forgiveness. Receiving the blessings of Nara and Narayana, he returned, and in time became renowned as a compassionate ruler beloved by his people.
-
558
मूल्यवर्धनम्
कदाचित् कश्चन वणिक् स्वस्य तरुणं पुत्रम् अहूय एकं मलिनं वस्त्रं दत्त्वा एकं रजतनाणकम् आनेतव्यम् इति अवदत् । पुत्रः तत् वस्त्रं स्वच्छतया प्रक्षाल्य महता श्रमेण विक्रीय रजतनाणकद्वयं प्राप्तवान् । एवं रीत्या पिता अनेकवारं पुत्राय मलिनवस्त्राणि दत्त्वा तानि विक्रेतुं रजतनाणकानि सुवर्णनाणकानि वा अनेतुम् अवदत् । पुत्रः अनेकान् उपायान् आश्रित्य तानि सर्वाणि विक्रीतवान् । एतस्मात् प्रयत्नेन सर्वमपि साधयितुं शक्यम् इति नीतिः पुत्रेण ज्ञाता ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once a merchant gave his young son a dirty cloth and asked him to sell it for one silver coin. The son cleaned it carefully, worked hard, and sold it for two coins. In the same way, the father repeatedly gave him dirty clothes, asking him to bring back silver or even gold coins. The son, using different methods, managed to sell them all successfully. From this, the son learned the lesson: with effort, anything can be accomplished.
-
557
प्रीत्यादरपूर्णः व्यवहारः
कश्चन युवकः पत्न्या सह विपणिं गत्वा सर्वदा एकस्याः वृद्धातः एव फलानि क्रीणाति स्म । तस्याः निर्धनतां ज्ञात्वा साहाय्यार्थं धनं दातुं तेन यदा उद्यतं तदा तया विनयेन तत् निराकृतम् । तस्मात् तेन युवकेन कश्चन उपायः कृतः । तेन यः उपायः कृतः तम् उपायं ज्ञात्वा वृद्धा अन्यम् उपायं करोति । युवकेन कः उपायः कृतः ? वृद्धया कृतः उपायः कः ? इति कुतूहलेन इमां कथां शृण्वन्तु ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A young man, along with his wife, always bought fruits from an old woman in the market. Knowing her poverty, he once tried to give her money to help, but she politely refused. Therefore, the young man devised a certain method. Learning of his method, the old woman in turn adopted another method. What was the method devised by the young man? What was the method adopted by the old woman? Listen to this story with curiosity.
-
556
महामूर्खः कः?
ध्यानचन्दः वणिक् चेदपि सः जिज्ञासुः भगवद्भक्तः च आसीत् । कदाचित् नगरस्य महाश्रेष्ठी लक्ष्मीपतिः तं गृहम् आहूय तस्य शिरसि एकं शिरस्त्रं निधाय अवदत् 'एतत् महामूर्खाय दातुं कारितम्' इति । ध्यानचन्दः प्रतिवचनं किमपि न अवदत् । अथ कदाचित् लक्ष्मीपतिः अस्वस्थः जातः । तदा ध्यानचन्दः आगत्य तत् शिरस्त्रं लक्ष्मीपतेः शिरसि स्थापयित्वा अवदत् 'परलोकं प्रति किमपि नेतुं न शक्यते इति जानता अपि भवता आजीवनं प्रभूतं धनं सम्पादितम् । किन्तु इदानीं न धनम् उपकरोति, न वा उपकुर्वन्ति बान्धवपुत्रपत्न्यादयः । अतः मत्तः अपि श्रेष्ठः मूर्खः भवान् एव' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Dhyānachanda, though a merchant, was also a seeker and devotee of God. Once, the wealthy chief Lakshmipati called him home, placed a head-ornament on his head, and mocked: “This was made to be given to the greatest fool.” Dhyānachanda remained silent. Later, when Lakshmipati fell ill, Dhyānachanda came and placed the same ornament on his head, saying: “Though you know nothing can be carried to the next world, you spent your life amassing wealth. Now neither riches help you, nor do relatives or family. Therefore, you are a greater fool than I.”
-
555
ज्ञानम् अपारम्
स्वगुरोः अपारस्य ज्ञानस्य प्रशंसां कुर्वते शिष्याय गुरुः एवं बोधयति 'अलं प्रशंसया । मया प्राप्तम् अल्पमेव । यथा सागरः अपारः तथैव ज्ञानराशिः अपि अपारः । वयं महता श्रमेण यत् अध्ययनं कुर्याम तत् तु तावदेव भवेत्, सागरे दण्डस्य मज्जनात् यावत् सङ्गृह्येत । यत् ज्ञानं प्राप्तं तत् अधिकम् इति तु भ्रमः एव । प्राप्तव्यमस्ति अपारम् । ज्ञानसागरस्य अपारतां मनसि निधाय प्राप्तस्य मापनं करणीयम् अस्माभिः, न तु स्वयोग्यतां सामर्थ्यं वा मनसि निधाय' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)When a disciple praised his Guru’s vast knowledge, the Guru explained: “Enough of praise. What I have gained is little. Just as the ocean is boundless, so too is the treasure of knowledge. Whatever we study with great effort is only as much as a stick dipped into the sea can gather. To think that what we know is great is mere illusion. Much more remains to be attained. We must measure our learning against the infinity of knowledge, not against our own ability or worth.”
-
554
पुत्रात् ख्याता इतरा
मण्डूकमुनि-इतरयोः पुत्रः महीदासः सर्वदा द्वादशाक्षरमन्त्रं जपन् लौकिककर्मसु अनासक्तिं वहति स्म । अतः महीदासे इतरायां च मुनेः अनादरः प्रवृद्धः । खिन्ना इतरा पुत्रेण सह अन्यत्र वासम् आरब्धवती । कदाचित् जपेन सन्तुष्टः विष्णुः महीदासस्य स्वप्नम् आगत्य 'गुरूपदेशं विना एव सकलवेदवेदाङ्गज्ञानं तव भविष्यति' इति अवत् । तथैव ज्ञानं सम्पाद्य ऋग्वेदभाष्यं कर्मकाण्डबोधकं ब्राह्मणग्रन्थं च सः अरचयत् । 'मम माता पत्युः उपेक्षाम् अनुभवन्ती, प्रतिकूलस्थितौ अपि मह्यं सत्संस्कारदाने बद्धादरा आसीत् । अतः इतः परं मया रचितः ब्राह्मणग्रन्थः ऐतरेयब्राह्मणत्वेन निर्दिष्टः भवतु' इति अवदत् महीदासः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Mahidasa, son of Mandukamuni and Itara, constantly recited the twelve syllable mantra and remained detached from worldly duties. Because of this, his father neglected him, and his mother, distressed, went to live elsewhere with her son. One day, Lord Vishnu, pleased with Mahidasa’s devotion, appeared in his dream and blessed him: “Without a teacher’s instruction, you shall gain complete knowledge of the Vedas and Vedangas.” Indeed, Mahidasa attained such wisdom and composed a commentary on the Rigveda and a Brahmana text explaining ritual practices. He named it as ‘Aitareya Brahmana’ after his mother Itara, honoring her steadfast values despite hardship.
-
553
सदाचारस्य अनुष्ठानम्
पूर्वं वारणास्यां स्थितस्य बनारसहिन्दुविश्वविद्यालयस्य कुलपतिः आसीत् आचार्य: नरेन्द्रदेवः । अस्वस्थं बन्धुं द्रष्टुं कदाचित् सः सैकल्-रिक्षायानेन गच्छन् आसीत् । तं दृष्ट्वा कश्चन सुहृद् पृच्छति यत् सर्वकारस्य कार्-यानेन गन्तुम् अर्हति खलु इति । तदा आचार्यः वदति 'उन्नतस्थाने तिष्ठता मया आचारशुद्धिः परिरक्षणीया । यदि मादृशानाम् आचारे एव शुद्धिः न भवेत् तर्हि समाजे सदाचारः कथं तिष्ठेत्? अतः मया वैयक्तिककार्याय सर्वकारीयव्यवस्थायाः उपयोगः न क्रियते' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Acharya Narendra Dev, once the Vice Chancellor of Banaras Hindu University, went by cycle-rickshaw to visit an ailing relative. A friend asked why he did not use the government car available to him. Narendra Dev replied: “In a high position, I must preserve purity of conduct. If people like me do not maintain integrity in personal behavior, how can society uphold morality? Therefore, I do not use government facilities for private purposes.”
-
552
यत् यदा, तत् तदैव
इयं कथा राजचोरयोः विषये अस्ति। चौर्यार्थम् आगतः चोरः राज्ञः प्राणरक्षणं करोति । तदर्थं राजा तस्मै दश सुवर्णनाणकानि उपायनत्वेन दत्त्वा प्रेषयति । अपि च चौर्यार्थं दश रजतनाणकानि दण्डत्वेन दातव्यम् इति दण्डयति च । कोषाधिकारी कुतूहलत्वेन चोरम् अपृच्छत् 'चौर्यार्थम् आगतेन त्वया चौर्यप्रवृत्तिं परित्यज्य राज्ञः प्राणरक्षणाय किमर्थम् उद्यतम्?’ इति । तदा चोरः 'परेषां प्राणरक्षणाय प्रयासः मानवमात्रस्य आद्यं कर्तव्यम् । तदेव मया कृतम् इति' अवदत् । यत् यदा करणीयं तत् तदैव करणीयम् इति अचिन्तयत् कोषाधिकारी ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)This story concerns a king and a thief. A thief came intending to steal, but instead saved the king’s life. In gratitude, the king sent him ten gold coins as a gift, yet also fined him ten silver coins for coming with the intent to steal. Curious, the treasurer asked the thief: “Why did you abandon theft and choose to save the king’s life?” The thief replied: “To protect another’s life is the foremost duty of every human being. That is what I did.” The treasurer reflected: “What must be done should be done at the right time.”
-
551
विग्रहः तु मदीयः
पूर्वं कश्चन कृष्णभक्तः आसीत् । सः सदा भगवतः ध्याने पूजायां च निरतः भवति स्म । तस्य भक्त्या सुप्रीतः श्रीकृष्णः कदाचित् तस्य पुरतः प्रत्यक्षः अभवत् । तं दृष्ट्वा भक्तः नितरां सन्तुष्टः जातः । आनन्दाश्रूणि स्रावयन् साष्टाङ्गं नमस्कृतवान् । ततः श्रीकृष्णः तं परीक्षते । भक्तः परीक्षायां सफलः भवति । अन्ते भक्तम् आशिषा अनुगृह्य ततः अन्तर्हितः भवति भगवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once there was a devotee of Krishna who spent his time in constant meditation and worship. Pleased with his devotion, Lord Krishna appeared before him. Overjoyed, the devotee shed tears of bliss and bowed in full reverence. Krishna then tested him, and the devotee proved successful. In the end, the Lord blessed him and disappeared.
-
550
दिग्भ्यः नमस्कारार्पणम्
आश्रमे गुरुः प्रतिदिनं प्रातः अष्टसु दिक्षु नमस्कारं करोति स्म । तत् दृष्ट्वा कश्चन शिष्यः अष्टानां दिशानां नमस्कारस्य उद्देशम् अपृच्छत् । तदा सः सर्वाः दिशः किं किं तत्त्वं सङ्केतयन्ति इति वदति । दिग्भ्यः नमस्कारार्पणम् एवं विशिष्टेन उद्देशेन भवति इति ज्ञात्वा इतः परम् अहमपि दिशः नमस्करिष्यामि इति अवदत् शिष्यः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In the ashram, the Guru offered salutations every morning to the eight directions. Seeing this, a disciple asked the purpose of bowing to all directions. The Guru explained that each direction symbolizes certain principles, and salutation to them is done with a special intent. Understanding this, the disciple said: “From now on, I too will bow to the directions.”
-
549
ज्ञानप्रकाशस्य उद्दीपनम्
कश्चन शिष्यः आचार्यम् अपृच्छत् यत् ज्ञानात् केवलं वृत्तिप्राप्तिः, मानसम्मानप्राप्तिः च एव प्रयोजनं वा? इति । तदा आचार्यः केनचित् निर्दर्शनेन शिष्यं बोधयति 'अज्ञानस्य कारणतः अस्मासु अनेकविधाः भ्रान्तयः जायन्ते । तासां निवारणाय अन्तरङ्गदीपः उद्दीपनीयः । सर्वे अन्तरङ्गोद्दीपनं कर्तुं न अर्हन्ति । भ्रमजालस्य अपसारणाय आत्मप्रकाशस्य प्राप्त्यै च निरन्तरगभीराध्ययनम् एव शरणम्' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A disciple once asked his teacher whether knowledge is meant only for livelihood and honor. The teacher explained with an example: “Because of ignorance, many delusions arise within us. To remove them, the inner lamp must be kindled. Not everyone can awaken this inner light. For clearing the web of illusions and attaining self-illumination, continuous deep study alone is the true path.”
-
548
सत्कार्याणि कानि ?
'फलप्राप्तीच्छां विना यानि उत्तमानि कार्याणि क्रियेरन् तानि एव सत्कार्याणि भवेयुः । यत् क्रियेत तत् निःस्वार्थभावनया कर्तव्यम् । जनानाम् उपकारः यतः स्यात् तादृशानि कार्याणि करणीयानि । येभ्यः कार्येभ्यः मनसः आत्मनः च संस्कारः भवेत् तानि एव उत्तमकार्याणि । प्रशंसाप्राप्तीच्छा विकृतिरूपा एव । अतः तादृशीम् इच्छां परित्यज्य शुद्धेन हृदयेन प्रजाहितकार्याणि कुरु' इति कश्चन संन्यासी कञ्चन राजानं बोधयति अस्यां कथायाम् । ततः ज्ञानोदयं प्राप्तः राजा सत्कार्यसङ्कल्पं कृत्वा तं संन्यासिनं भक्त्या नमस्कृतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A saint advised a king: “Good deeds are those done without desire for reward. Act with selflessness, aiming at the welfare of people. The best actions are those that refine both mind and character. Seeking praise is a distortion—abandon it and work with a pure heart for the good of all.” Hearing this, the king gained insight, resolved to perform noble deeds, and bowed to the saint with devotion.
-
547
निर्लिप्तभावेन प्रशासनम्
व्यासपूजादिने गुरोः रामदासस्य आश्रमं प्रति भक्ताः आगत्य गुरुपूजां निमित्तीकृत्य किमपि समर्पयन्ति स्म । राजा शिवराजः अपि तत्र आगत्य साष्टाङ्गप्रणामं कृत्वा एकं कागदं स्थालिकां संस्थाप्य गुरुदेवस्य पुरतः अस्थापयत् । तत्र लिखितम् आसीत् 'मम राजपदवीं, राज्यं, सम्पत्तिं च गुरुदेवस्य पदतले अर्पितम् अस्ति' इति । सः संन्यासी भूत्वा गुरोः सेवां कर्तुम् इच्छति स्म । तदा गुरुः अवदत् 'स्वराज्यं सुराज्यं क्रियताम् । संन्यासिनः यः मनोभावः तेनैव निर्लिप्तमनोभावेन कार्यं क्रियताम् । तस्य सङ्केतरूपेण राज्यध्वजः काषायवर्णीयः भवतु' इति । तस्मात् दिनात् शिवराजप्रशासनस्य ध्वजः काषायवर्णीयः जातः । सः एव भगवद्-ध्वजः इति निर्दिश्यते ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)On the day of Vyasa Puja, devotees came to the ashram of Guru Ramdas to offer their respects. King Shivaji also arrived, bowed fully, and placed a paper before the Guru. It read: “I place my throne, kingdom, and wealth at the feet of my Guru.” Shivaji wished to renounce and serve as a monk. The Guru then said: “Let your kingdom become Swarajya (self rule) and Surajya (good governance). Perform your duties with the same detachment as a monk. As a symbol of this spirit, let the royal flag be saffron in color.” From that day, Shivaji’s administration adopted the saffron flag, known as the Bhagavad-dhvaja.
-
546
सन्तोषप्राप्त्यै मार्गः
सन्तोषप्राप्तिमार्गम् इच्छन्तं कञ्चन गृहस्थं कश्चन महात्मा स्वस्य आश्रमे कूपखननकार्ये नियोजयति । सः गृहस्थः काञ्चित् नीतिम् अनुसृत्य कूपखननं करोति । जलम् अपि उद्भवति । तदा परस्परसम्भाषणावसरे महात्मा वदति 'कूपखननस्य या नीतिः सा एव सन्तोषप्राप्त्यै अपि । ऊर्ध्वभागे विद्यमानाः विघ्नकारकाः अंशाः अपनीताः चेत् सन्तोषः स्वयमेव उद्गच्छति । निरन्तरप्रयासः अपि अपेक्ष्यते तदर्थम् । मनसः नैर्मल्यं सम्पादितं चेत् सन्तोषः स्वयमेव प्राप्येत' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A householder seeking the path to contentment was engaged by a saint in digging a well at the hermitage. Following proper method, he dug, and water eventually emerged. In conversation, the saint explained: “The principle of well digging is the same for attaining contentment. When the obstacles above are removed, water rises naturally; likewise, when impurities of the mind are cleared, contentment arises on its own. Constant effort is required, but once purity of mind is achieved, satisfaction flows naturally.”
-
545
देशीया विदेशीया च संस्कृतिः
भारतीयः कश्चन युवा संन्यासी विदेशम् अगच्छत् । काषायं कञ्चुकं शिरोवेष्टं धृत्वा सर्वत्र अटति स्म । एकदा कश्चन विदेशी तम् उपसर्प्य अवदत् 'सर्वदा इदमेव वस्त्रं धृतवता भवता लज्जा न अनुभूयते वा? कीदृशी दारिद्र्योपेता संस्कृतिः स्यात् भवताम्' इति । तदा सः युवा संन्यासी अवदत् 'भवतां संस्कृतेः निर्माणं भवद्देशस्य सौचिकाः कुर्युः । किन्तु अस्माकं सनातनीं संस्कृतिम् अस्माकं चारित्र्यं निर्माति । कस्यचन देशस्य सांस्कृतिकः विकासः तत्रत्येन चारित्र्यबलेन मापनीयः, न तु सौचिककौशलेन' इति । स च युवा संन्यासी अस्ति स्वामी विवेकानन्दः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)An Indian young monk traveled abroad, wearing his saffron robe and turban everywhere. One day, a foreigner asked him: “Do you not feel ashamed to always wear such clothing? Is your culture so poor?” The monk replied calmly: “Your culture is shaped by your tailors. But our ancient culture is shaped by our character. The true measure of a nation’s cultural progress lies in the strength of its character, not in the skill of its tailors.” That young monk was Swami Vivekananda.
-
544
स्वरक्षणं स्वयमेव करणीयम्
कस्मिंश्चित् अरण्ये उषितवतः कस्यचन शशस्य विश्वासः आसीत् यत् सर्वे प्राणिनः मम सुहृदः इति । यश्च विश्वासः परावलम्बनं द्योतयति स्म । एकदा क्रीडाङ्गणे खेलता शशकेन दूरात् शुनकानां भषणं श्रुतम् । शशः ततः न अधावत् । तस्य चिन्तनम् आसीत् कश्चन सुहृद् मम साहाय्यं करिष्यति इति । ततः सः अश्वं गर्दभं मेषं च उपसर्प्य स्वं रक्षितुं प्रार्थयते । किन्तु ते सर्वे किञ्चन कारणम् उक्त्वा सहकर्तुं निराकुर्वन्ति । एतावता अनतिदूरे एव शुनकानां भषणं श्रुत्वा 'आत्मनि विश्वस्य अधुना मया धावनीयम् अस्ति' इति विचिन्त्य शशः स्वरक्षणाय ततः अधावत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a forest lived a hare who believed that all creatures were his friends, showing his dependence on others. One day, while playing, he heard dogs barking in the distance. Trusting that some friend would help, he did not run. He approached a horse, a donkey, and a sheep, asking for protection, but each gave excuses and refused. As the barking grew nearer, the hare realized: “Now I must rely on myself,” and ran to save his own life.
-
543
अपराधकृत्येषु न्यूनता
कदाचित् वेषान्तरं धृतवान् राजा पङ्क्तिबद्धतया एव चलतः दशाधिकान् गर्दभान् अपश्यत् । कारणे पृष्टे रजकः अवदत् यत् यः गर्दभः पङ्क्तिभङ्गं करोति तं सम्यक् ताडयामि इति । राजा स्वपरिचयम् उक्त्वा देशे प्रवृत्तानाम् अपराधकृत्यानां निग्रहः कर्तुं शक्यः वा इति । तदा रजकः अवदत् 'द्वित्राः कठोरदण्डनेन दण्डनीयाः । ततः सहजतया अपराधकृत्ये न्यूनता भविष्यति' इति । ततः राजा तं न्यायनिर्णायकत्वेन नियोजयति । आदौ चौर्यप्रकरणस्य कस्यचित् विचारणा जाता । तदा रजकेन कश्चन कठोरदण्डः विहितः । तावता लिपिकारः न्यायनिर्णायकम् उपसर्प्य 'एषः अस्मदीयः जनः' इति मन्दस्वरेण अवदत् । तस्मै अपि कठोरदण्डः विहितः । ततः देशे अपराधकृत्येषु महती न्यूनता जाता ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A king in disguise saw a washerman punishing donkeys that broke the line. Impressed by his strict fairness, the king made him judge. In his very first case of theft, the washerman imposed a harsh punishment. When a clerk whispered that the accused was his own man, the washerman punished him equally without hesitation. His impartiality and firmness soon brought a remarkable decline in crime throughout the land.
-
542
सुयोग्यः पुत्रः
कदाचित् जलपूर्णं घटं वहन्तीनां तिसृणां महिलानां पुत्राणां श्रेष्ठताविषये चर्चा आरब्धा । प्रथमायाः पुत्रः महाविद्वान् । द्वितीयायाः पुत्रः उत्तमः वणिक् । तृतीयायाः पुत्रः तु शास्त्रम् अधीत्य, विरामसमये अन्यान् शास्त्रग्रन्थान् अध्यापयति स्म । तावता राजधानीं गच्छन् प्रथमायाः पुत्रः ताः नमस्कृत्य अग्रे अगच्छत् । अनन्तरं द्वितीयायाः पुत्रः अपि ताः प्रणम्य वेगेन अधावत् । तावता तृतीयायाः पुत्रः आगत्य तासां हस्तात् अनुरोधपूर्वकं घटं स्वीकृत्य अग्रे प्रस्थितवान् । तदा उभे अपि तृतीयाम् अवदन् 'भवत्याः पुत्रः एव श्रेष्ठः । न केवलं भवत्याः, अपि तु आवयोः अपि भारम् ऊढवान्' इति । यः मात्रापित्रोः अन्येषां च कष्टस्य निवारणे सर्वदा अनवधानवान् भवेत् सः एव योग्यः पुत्रः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Three women carrying water pots discussed whose son was the greatest. The first’s son was a great scholar, the second’s an excellent merchant, and the third’s son studied scriptures and also taught others in his free time. As they traveled toward the capital, the scholar greeted them and went ahead; the merchant bowed and hurried past; but the third woman’s son respectfully took the pot from their hands and carried it forward. The other two then said: “Your son is truly the best—not only for you, but for us too, since he bore our burden.”
-
541
अभिनन्दनं कस्मै ?
रवीन्द्रनाथटागोरवर्यः यदा गीताञ्जलिनिमित्तं नोबेल्प्रशस्तिं प्राप्नोत् तदा शान्तिनिकेतने अभिनन्दनसभा प्रवृता । बङ्गालस्य वरपुत्रः' साहित्यक्षेत्रे ध्रुवनक्षत्रम्' ‘भारतमातुः कीर्तिहेतुः' इत्यादिभिः वचनैः तस्य प्रशंसा बहुभिः कृता । रवीन्द्रनाथवर्येण न अत्युत्साहः प्राप्तः, न वा नीरसप्रतिस्पन्दः दर्शितः । कश्चन आप्तः अपृच्छत् 'सर्वे महता सन्तोषेण आसन् । किन्तु भवान् तु स्थितप्रज्ञः इव व्यवहृतवान्' इति । तदा रवीन्द्रनाथवर्यः शान्ततया अवदत्'अद्य आगतेषु कोऽपि गीताञ्जलिपुस्तकं न पठितवान् एव । अभिनन्दनम् आसीत् नोबेल्पुरस्कराय । यत् अभिनन्दनं कृत्यै कृतिकाराय वा न स्यात् तादृशेन अभिनन्दनेन कथं सन्तोषः प्राप्येत?’ इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)When Rabindranath Tagore received the Nobel Prize for Gitanjali, a felicitation ceremony was held at Shantiniketan. He was praised with words like “the guiding star of literature” and “the glory of Mother India.” Yet Tagore showed neither excessive excitement nor indifference. An acquaintance asked: “Everyone was overjoyed, but you behaved like one firmly composed.” Tagore calmly replied: “Today, none of those present actually read Gitanjali. The felicitation was for the Nobel Prize, not for the work or its creator. How can such praise bring true satisfaction?”
-
540
कष्टनिवारणं सर्वादौ स्यात्
कदाचित् रामकृष्णपरमहंसेन सह प्रबन्धकः मथुराबाबुः अन्ये केचन च तीर्थयात्रां कुर्वन्तः देवघरप्रदेशं प्राप्तवन्तः । तस्मिन् काले महान् क्षामः प्रसृतः आसीत् । आहाराभावकारणतः जनाः महत् कष्टम् अनुभवन्तः आसन् । तत्रापि सन्थालजातीयाः वनवासिनः भोक्तुम् अन्नं, धर्तुं वस्त्रं च अप्राप्नुवन्तः किङ्कर्तव्यताविमूढाः आसन् । रामकृष्णवर्यः एतेषां कष्टस्य निवारणाय दृढनिश्चयम् अकरोत् । तीर्थयात्रायै रक्षितं धनं, धनवतां सम्पर्कं च कृत्वा सङ्गृहीतं धनं च उपयुज्य वनवासिनां निमित्तम् आहारव्यवस्था वस्त्रादिव्यवस्था च यथायोग्यं परिकल्पिता तेन ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, during a pilgrimage to Deoghar with Mathura Babu and others, Sri Ramakrishna Paramahamsa witnessed a severe famine. People suffered greatly due to lack of food, and the Santhal tribesmen in particular had neither food nor clothing. Determined to relieve their suffering, Ramakrishna used the money saved for the pilgrimage and gathered funds through wealthy contacts. With this, he arranged proper supplies of food and clothing for the forest dwellers.
-
539
कष्टकाले व्यवहारः
निरन्तरं कष्टम् अनुभवन्तीं काञ्चित् पौत्रीं तस्याः पितामही एकेन निर्दशनेन दर्शयति यत् कष्टे प्राप्ते धैर्यच्युतिप्राप्तिः न उचिता । कष्टकाले दृढतां प्राप्य कष्टं धैर्येण सम्मुखीकरणीयम् । कष्टं सम्मुखीकृत्य कालानुगुणतया आत्मनि परिष्कारम् आनीय अन्येषु अपि तादृशस्य गुणस्य आनयनाय प्रयासः तु उत्कृष्टः व्यवहारः इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A grandmother advised her granddaughter, who was constantly facing hardships, that one should not lose courage in times of difficulty. Hardships must be met with firmness and patience. By facing them, one can improve oneself with time, and striving to inspire the same strength in others is the noblest conduct.
-
538
प्रीतिः परस्परावगतिः च मुख्या
कश्चन कृषिकः तरुणः विवाहार्थं बह्वीः कन्याः दृष्टवान् चेदपि तासु कापि तस्य तृप्तये न जाता । अतः तेन अग्रे किं क्रियेत इति धिया कञ्चन गुरुम् उपसर्पति । तदा गुरुः अवदत् 'भवता उत्कृष्टं बृहदाकारकम् आम्रफलम् एकम् अन्विष्य आनेतव्यम् । पूर्वं यत्र गतं तत् स्थलं प्रति न गन्तव्यम्' इति । ततः निर्गतेन तरुणेन एकस्यां वाटिकायाम् उत्कृष्टानि आम्रफलानि दृष्टानि चेदपि अग्रे इतोSपि उत्कृष्टानि आम्रफलानि प्राप्येरन् इति विचिन्त्य सः अग्रे अगच्छत् । किन्तु न प्राप्तानि । सः विषादेन प्रत्यागत्य स्वस्य अनुभवं यदा अकथयत् तदा एतादृशी स्थितिः मा भवतु कन्यान्वेषणविषये इति गुरुः अवदत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A young farmer sought marriage but was never satisfied with the girls he saw. His teacher told him to find one excellent mango without revisiting places. Hoping for better fruit, he passed by good ones and ended up with none. The teacher explained: “Do not keep searching endlessly for something better in choosing a bride, or you may lose everything.”
-
537
प्रयत्नः न परित्यक्तव्यः
श्रान्तः पुत्रः नौदण्डचालनं परित्यज्य गृहं गच्छाम इत्यवदत् यतः बलवद्भ्यः तरङ्गेभ्यः नौका अग्रे न गच्छति स्म । तदा पिता अवदत् 'समुद्रस्य गभीरता यावत् वर्धेत तावता प्रमाणेन तरङ्गाघातः अपि न्यूनः भवेत् । गभीरस्थलप्राप्तिपर्यन्तमपि प्रयत्नः न परित्यक्तव्यः । ये शान्तस्थितिं प्राप्तवन्तः ते सर्वे सहस्रशः प्रयत्नान् कृतवन्तः एव । यः प्रयत्नकारणात् भीतः भवेत् सः कदापि अग्रे न गच्छेत्, प्रगतिं न प्राप्नुयात्, सुस्थितिं च न लभेत' इति । पुत्रः विना प्रतिवचनं पुनरपि नौदण्डचालने मग्नः अभवत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A tired son stopped rowing and said, “Let us go home, for the strong waves do not let the boat move forward.” The father replied: “The deeper the sea, the weaker the force of the waves. Effort must not be abandoned until we reach the deep waters. Those who attain calm stability have made countless efforts. One who fears effort can never move forward, gain progress, or find stability.” Hearing this, the son silently resumed rowing.
-
536
विजयस्य मार्गः
कश्चन जनः कञ्चित् गुरुम् उप्सर्प्य विजयप्राप्तिमार्गम् अपृच्छत् । तदा गुरुः बोधयति – ’विजयप्राप्तिमार्गः पार्थक्येन न भवति । स्थिरतया स्थित्वा कष्टपरमपरां सम्मुखीकृत्य यः अग्रे गच्छेत् सः एव विजयं प्राप्नुयात्' इति । एवमेव सम्भाषणम् अनुवर्तते तयोः मध्ये । सन्तोषसन्तृप्तादयः कथं प्राप्येरन् ? सन्तोषस्य जयपराजयोः च किं न कोSपि सम्बन्धः? तेषां सर्वेषां प्रश्नानां समाधानं बोधयति सः गुरुः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A man approached a teacher and asked about the path to victory. The teacher explained: “The way to victory is not separate. One who stands firm and faces the greatest difficulties with steadiness alone attains success.” Their dialogue continued: How are satisfaction and contentment attained? Is there any relation between joy, victory, and defeat? The teacher then answered all these questions, giving clarity on the true meaning of victory and contentment.
-
535
यशस्वितासूत्रम्
कश्चन गुरुः यशस्वितामार्गं ज्ञातुम् इच्छन्तं शिष्यं महाराजस्य समीपं प्रेषयति । सुखभोगवातावरणे लीनः राजा कथं मां बोधयति इति चिन्तयति शिष्यः । भटाः शिष्यम् अतिथिप्रकोष्ठं नीतवन्तः । तत्र मृदुतल्पः, विविधाः फलखाद्यादिव्यवस्थाः आसन् । यदा शिष्यः शयनम् अकरोत् तदा तेन स्वशिरोभागे लम्बमानः कश्चन तीक्ष्णः खड्गः लक्षितः । समग्रां रात्रिं खड्गं पश्यन् एव अयापयत् सः शिष्यः । परेद्यवि राजा अवदत् 'आस्थाने भोगमये वातावरणे तिष्ठतः अपि मम दृष्टिः तु भवति स्वकर्तव्ये एव । कर्तव्ये यः दत्तदृष्टिः भवेत् तेन सर्वत्र यशः प्राप्येत एव' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A teacher sent his student to a king to learn the path of success. The student wondered how a pleasure-loving king could teach him. The guards took him to a guest chamber with a soft bed and many fruits. When he lay down, he noticed a sharp sword hanging above his head and spent the whole night watching it in fear. The next day, the king explained: “Even while living amidst luxury, my focus always remains on my duty. One who keeps his attention fixed on his duty will surely attain success everywhere.”
-
534
का नाम भीतिः?
फ्रान्स्-देशस्य कश्चन लघुग्रामः महता अरण्येन आवृतः आसीत् । ततः अनतिदूरे कश्चित् महापर्वतः विराजते स्म । कदाचित् तद्ग्रामस्य अष्टवर्षीयः बालं तं पर्वतम् आरुह्य एकस्यां महाशिलायाम् उपविश्य निसर्गसौन्दर्यम् आस्वादयन् आसीत् । अन्धकारः प्रसृतः चेदपि बालः गृहं न आगतः इति चिन्तायां सत्यां तस्य पितामही प्रतिवेशिजनैः सह पौत्रस्य अन्वेषणं कुर्वती पर्वतसमीपम् अगच्छत् । तत्र कस्याञ्चित् महाशिलायां तूष्णीम् उपविष्टः बालः तैः दृष्टः । भीतेः स्वरूपमेव अजानतः स्वस्य पौत्रस्य धीरतां दृष्ट्वा पितामही तम् आलिङ्गितवती । स्वीये अष्टमे वयसि अपि भीतिम् अजानन् सः बालः अग्रिमे काले स्वकीयं बलम् एव साधनं मत्वा फ्रान्स्-देशस्य सेनानेतृत्वं निरूढवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In France, a small village was surrounded by a great forest, with a mountain nearby. One day, an eight-year-old boy climbed the mountain and sat on a large rock, enjoying nature. When darkness fell and he did not return, his grandmother, worried, searched with neighbors and found him calmly seated on the rock. Amazed at his fearlessness, she embraced him. Even at eight he knew no fear, and later, considering his courage as his strength, he rose to become the commander of France’s army.
-
533
धर्मतत्त्वम्
इयं कथा धर्मत्त्वं बोधयति । कस्यचन वणिजः जिज्ञासा आसीत् । सा च लोके स्थितानां बहूनां मतानां मध्ये परस्परं कलहाः भवन्ति । सर्वाणि अपि मतानि स्वचिन्तानुगुणं धर्मस्य स्वरूपं विवृण्वन्ति । किन्तु धर्मस्य वास्तविकं स्वरूपं किम् इति न ज्ञायते इति । अथ कदाचित् सः वणिक् कञ्चित् तत्त्वज्ञानिनम् उपसर्प्य स्वजिज्ञासां कथयित्वा तत्त्वज्ञानिना ज्ञातं धर्मत्त्वं बोधयितुं प्रार्थयते । स च तत्त्वज्ञानी स्वस्य अनुभवानुसारं प्राप्तं धर्मविषयकज्ञानं वणिजं बोधयति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A merchant wondered about the true nature of dharma, since people held conflicting views. He approached a wise philosopher, who explained dharma based on his own realized experience. Dharma is understood through true wisdom, not mere opinions.
-
532
छात्रस्य निःस्पृहता
शैत्यकालस्य रात्रिः । केचन बालाः छात्रावासस्य पुरतः अग्निं प्रज्वाल्य तस्य पार्श्वे उपविश्य पुस्तकानि पठन्ति स्म । तदवसरे कश्चन पान्थः आगत्य अग्निपार्श्वे उपविशति शैत्यकारणेन । किञ्चित्कालं तत्र उपविश्य शैत्यनिवारणम् अनुभूय छात्रेभ्यः कृतज्ञतां समर्प्य ततः निर्गच्छति । किञ्चित्कालानन्तर्म् अध्ययनरतः कश्चन छात्रः पान्थस्य ग्रन्थिम् पश्यति । तस्मिन् प्रभूतं धनम् आसीत् । सः धावित्वा तस्मै पान्थाय धनग्रन्थिं समर्पितवान् । छात्रस्य निर्लोभतां निष्कपटतां च दृष्ट्वा सन्तुष्टः सः पान्थः छात्राय कानिचन रूप्यकाणि दातुं यदा उद्यतः तदा छात्रः तत् निराकरोति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)On a cold night, boys studied by a fire outside their hostel. A traveler warmed himself there, thanked them, and left behind a bundle of money. A student found it and returned it honestly. Pleased, the traveler offered him silver coins, but the student refused.
-
531
हृदयस्य अवगमनम्
रामः यदा वनवासं प्रति प्रस्थितवान् मार्गे एकं कण्टकं रामस्य पादे लग्नम् । वेदनाम् अनुभवन् सः भूदेवीं प्रार्थितवान् 'मातः! यदा भरतः मम अन्वेषणं कुर्वन् अत्र आगच्छेत् तदवसनरे मार्गे कण्टकानि शिलाखण्डाः च यथा न भवेयुः तथा अनुगृहाण' इति । 'किमर्थम् एवं प्रार्थितम्?’ इति कुतूहलेन सीता अपृच्छत् । तदा रामः अवदत् 'अन्वेषणसमये यदि भरतेन कण्टकवेधः प्राप्येत तर्हि सः चिन्तयेत् यत् मम अग्रजः एतादृशैः कियद्भिः कण्टकैः विद्धः स्यात् इति न ज्ञायते इति । तदीयं हृदयं नितरां व्यथितं भवेत् । अतः एव मया भूदेवी तथा प्रार्थिता' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)When Rama set out for exile, a thorn pierced his foot along the way. Feeling the pain, he prayed to Mother Earth: “When Bharata comes here searching for me, please ensure that there are no thorns or stones on the path.” Curious, Sita asked, “Why did you pray so?” Rama replied: “If Bharata were pricked by a thorn during his search, he would worry, thinking how many such thorns might have pierced his elder brother. His heart would be deeply troubled. That is why I prayed to Mother Earth.”
-
530
राष्ट्रश्रद्धा
कस्यचन राज्ञः सभायाम् 'अस्मिन् राज्ये जनानां सन्तोषजीवनस्य कारणं किं भवितुम् अर्हति?’ इति विषयम् अधिकृत्य चर्चा जाता । अन्ते निर्णीतं यत् सेना, देशसमृद्धिः, राष्ट्रश्रद्धा चेति त्रीणि तत्त्वानि मुख्यानि इति । एतेषु अपि मुख्यं किम् इति जिज्ञासायां राजा कञ्चन संन्यासिनं दृष्ट्वा स्वस्य जिज्ञासां तस्य पुरतः उपस्थापितवान् । सुदीर्घायाः चर्चायाः अनन्तरं राज्ञा ज्ञातं यत् राष्ट्रश्रद्धा एव सर्वातिशायिनी इति । यदि सा न भवेत् तर्हि सैन्यसमृद्ध्योः सत्योः अपि राष्ट्रं सुदृढं न भवेत् । विपत्तिकाले अपि सा श्रद्धा एव दृढाधारः । अतः महता प्रयत्नेन राष्ट्रश्रद्धा परिरक्षणीया इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a king’s court, a discussion arose on the question: “What should be the cause of a happy life for the people of this kingdom?” Finally, it was decided that three factors are essential—army, national prosperity, and national faith. To know which among these is supreme, the king consulted a sage. After a long discussion, the king realized that national faith is the highest. Without it, even with a strong army and prosperity, the nation cannot remain firm. In times of crisis too, faith alone is the solid foundation. Therefore, national faith must be preserved with great effort.
-
529
यत् अस्ति तदेव परमप्रियम्
कदाचित् कश्चन भक्तः कस्यचन माहात्मनः कुटीरे एकस्यां रात्रौ वासम् अकरोत् । इष्टिका एव उपाधानम्, जीर्णः च कटः एव शय्या आसीत् तस्य माहात्मनः । एतत् दृष्ट्वा सः भक्तः तस्य कष्टमयं जीवनं दृष्ट्वा उत्तमव्यवस्थां व्यवस्थापयिष्यामि इति अवदत् । किन्तु भगवता यत् दत्तं तत् एव परमप्रियम् इति महात्मा मन्यते स्म । इदानीं यावत् स्यात् तावता एव सः नितरां सन्तुष्टः आसीत् । एतादृशस्य कारणतः एव सः महात्मा जाता इति विचिन्त्य सः भक्तः तं महात्मानं नमस्कृत्य ततः निर्गतवान् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a devotee spent a night in the hut of a saint. The saint used bricks as a pillow and an old mat as his bed. Seeing his difficult life, the devotee offered to arrange better facilities. But the saint believed that whatever is given by God is most precious, and he remained completely content with what he had. Realizing that such contentment was the reason for his greatness, the devotee bowed to the saint and departed.
-
528
लक्षितम् अन्यत्
शरीरहीनताकारणतः कश्चन दुर्बलकायजनः भृतिकार्यं न प्राप्नोति स्म । यदा सः देवं प्रार्थितवान् तदा देवः स्वप्ने प्रत्यक्षीभूय 'शिलानोदनं कुरु' इत्यवदत् । मासत्रयम् अतीतं चेदपि तां महाशिलां कम्पयितुम् अपि न शक्तवान् सः । अतः सः खिन्नः जातः । कदाचित् स्वप्ने यदा देवः दृष्टः स्वस्य दौर्भाग्यम् अकथयत् सः जनः । तदा देवः अवदत् 'भवता सा महाशिला कम्पयितुं न शक्या इति जानामि अहम् । किन्तु मासत्रयं यावत् यः नोदनप्रयासः कृतः ततः भवतः दृढाकायता प्राप्ता । अतः अधुना यत्किमपि कार्यं कर्तुं समर्थः भवान्' इति ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Because of his weak body, a man could not obtain employment. When he prayed to God, the deity appeared in his dream and said: “Strike the great rock.” Even after three months, he was unable to move the rock and became disheartened. Later, when the deity appeared again in his dream, the man expressed his misfortune. The deity replied: “I know you cannot move that great rock. But through your effort of striking it for three months, your body has become strong. Now you are capable of doing any work.”
-
527
मकरतोरणम्
देवालयेषु द्वारतोरणस्य मध्यभागे (देवविग्रहं परितः) मकरतोरणं भवति । तन्मध्ये राक्षसमुखं किञ्चन दृश्यते । तस्य राक्षसस्य नाम किम्? तत् मुखं किमर्थं स्थाप्यते तत्र इति विषयम् अधिकृत्य स्कन्दमहापुराणे या कथा तां कथाम् इदानीं शृण्वन्तु ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In temples, at the center of the gateway arch (around the deity’s image), there is a Makara Torana. In its middle, a demon’s face is seen. What is the name of that demon? Why is that face placed there? Concerning this subject, the Skanda Mahāpurāṇa narrates a story—let us now hear that tale.
-
526
स्नेहस्य तत्त्वम्
कस्यचन राज्ञः चिन्ता आसीत् यत् स्वस्य द्वयोः पुत्रयोः कः तस्य उत्तराधिकारी भवेत् इति । तौ परीक्षितुं पञ्चाशत्सहस्रं सुवर्णनाणकानि दत्त्वा 'वर्षाभ्यन्तरे पञ्चाशति ग्रामेषु अस्मद्वासयोग्यानि गृहाणि निर्मातव्यानि' इति अवदत् । वर्षम् अतीतम् । अल्पेन धनेन अल्पेन कालेन च सम्पूर्णगृहनिर्माणकार्यं कर्तुं न शक्तम् इति ज्येष्ठः पुत्रः अवदत् । द्वितीयः पुत्रः तु राज्ञा दत्तं समग्रमपि धनं प्रत्यर्प्य अवद्त् 'पञ्चाशदधिकेषु ग्रामेषु मया सुहृदः सम्पादिताः । ते सर्वे अस्मान् स्वागतीकृत्य आतिथ्यादिना सत्करिष्यन्ति' इति । यत्र आत्मीयाः सुहृदः स्युः तत्र स्वीयस्य गृहस्य न आवश्यकता । राज्ञि एषः गुणः अवश्यमेव भवेत् इत्युक्त्वा द्वितीयपुत्रम् उत्तराधिकारित्वेन नियोजितवान् राजा ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A king tested his two sons by giving them money to build houses in fifty villages. The elder son failed, saying it was impossible. The younger son returned the money, explaining he had gained friends in more than fifty villages who would host them with honor. The king, valuing friendship over wealth, chose the younger son as his heir.
-
525
असहायाः न पीडनीयाः
कदाचित् कश्चन कृषिकः भीत्या धावतः शशशिशून् दण्डं गृहीत्वा अनुसृतवान् । तेषां धावनस्य दर्शनेन आनन्दं प्राप्नोति स्म । एतत् दृष्ट्वा कश्चन संन्यासी 'अन्यस्य असहायकतां दृष्ट्वा आनन्दप्राप्तिः न उचिता । ये असहायकताम् अनुभवेयुः तेषां मानसिकक्लेशम् अवगन्तुं प्रयासः करणीयः' इत्यादिभिः वचनैः तं कृषिकं बोधितवान् । स्वस्य दोषं ज्ञात्वा सः कृषिकः संन्यासिनं क्षमाम् अयाचत ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Once, a farmer chased some frightened young hares with a stick, and he felt joy watching them run. Seeing this, a monk advised him: “It is not right to feel pleasure at another’s helplessness. One should try to understand the mental suffering of those who experience helplessness.” Realizing his fault, the farmer asked the monk for forgiveness.
-
524
प्रयत्नेन किं न साध्येत ?
सातारानगरे देवरायनामकः कश्चन धनिकः रामनामकस्य निर्धनसेवकस्य कदाचित् निर्धनताविषये अपहासम् अकरोत् । प्रयत्नेन सर्वम् अपि साधयितुं शक्येत इति मत्वा सः कष्टेन प्रयाणं कृत्वा काशीम् अगच्छत् । कस्यचित् आचार्यस्य गृहे आश्रयं प्राप्य कठिनपरिश्रमं कुर्वन् द्वादश वर्षाणि यावत् अधीत्य व्याकरणे, न्याये, वेदान्ते, अर्थशास्त्रे च प्रावीण्यं प्राप्तवान् । तदीयां विद्वत्तां दृष्ट्वा पेशवराजः तम् उच्चपदे नियुक्तवान् । कदाचित् सातारानगरम् आगतवन्तं रामं वार्धक्यं प्राप्तवान् सः धनिकः देवरायः एव स्वागतीकृत्य सत्कृत्य पूर्वतनघटनां स्मरन् क्षमायाचनाम् अकरोत् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In Satara city, a wealthy man named Devaraya once mocked his poor servant Rama for his poverty. Believing that effort could achieve anything, Rama undertook a difficult journey to Kashi. There, he found shelter in a teacher’s house and, through twelve years of hard study, mastered grammar, logic, Vedanta, and economics. Impressed by his learning, the Peshwa appointed him to a high position. Later, when Rama returned to Satara, Devaraya himself welcomed him with honor and, recalling the past incident, apologized.
-
523
उन्नतिकारकः जीवनमार्गः
कश्चन कृषिकः कञ्चन आश्रमं गत्वा परमया श्रद्धया गुरोः उपदेशं शृणोति स्म । उपनिषदादयः ग्रन्थाः तु तेन न अधीताः, तथापि तस्य जीवनं तु उदात्तपूर्णम् आसीत् । कदाचित् तयोः सम्भाषणावसरे कृषिकः पृच्छति 'यदि भगवान् प्रत्यक्षः भवेत् तर्हि अहं किं याचेयम्?’ इति । तदा गुरुः किं किं याचितुं शक्नोति सः इति वदति । तत् च - सम्पादनं श्रमपूर्वकं भवतु, उत्तमस्वभावः, उदारता, श्रद्धा, लज्जा, पारमार्थिकं धनं च । यस्य समीपे एतानि स्युः तेन अन्यः किमपि प्राप्तव्यं याचनीयं वा न भवेत् कस्यचित् मनुष्यस्य । तस्य जीवनं च परमोत्कृष्टं स्यात् ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A farmer once went to an ashram and listened with deep devotion to the teacher’s guidance. Though he had not studied the Upanishads or other scriptures, his life was noble and full. During a conversation, the farmer asked: “If God were to appear before me, what should I ask for?”. The teacher replied: “Ask for these—wealth earned through hard work, good character, generosity, faith, modesty, and spiritual riches. Whoever possesses these needs nothing else, and his life will be truly excellent”.
-
522
कालमहिमा
कालः एव बलवान् । अनया कथया कालस्य महिमानं ज्ञातुं शक्नुमः । यस्य यदा उन्नतिकालः तदा तस्य बलं शौर्यं च भवति । अन्तकाले सर्वं निर्वीर्यं भवति । उन्नत्यवनत्यादिकं भवति कालकारणतः । यावत् जीवेम तावत् कालस्य सद्विनियोगः करणीयः । कदापि वृथा कालक्षेपः न करणीयः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)Time alone is powerful. This story shows its greatness. When it is the time for rise, strength and courage appear; at the end, everything becomes powerless. Progress and decline happen because of time. As long as we live, time must be used wisely—never wasted.
-
521
समुचिता दृष्टिः
कस्मिंश्चित् गुरुकुले गुरुः शिष्यान् बहुधा परीक्ष्य योग्यान् एव शिष्यत्वेन स्वीकरोति स्म । अथ कदाचित् प्रवेशावसरे गुरुः शिष्यान् अपृच्छत् 'भवद्भिः किं किम् आनीतम्? स्वस्य गृहकुलादिविषये वदन्तु' इति । सर्वे आत्मना आनीतस्य धनस्य वा सुवर्णस्य वा धान्यस्य वा विवरणं, स्वस्य पितृपितामहादयः कीदृशाः इत्यादिकं च श्रावितवन्तः । किन्तु कश्चन तरुणेन किमपि न आनीतम् आसीत् । स्वस्य पित्रादीनां विषये किमपि न अवदत् अपि । किमर्थम् एवम् इति गुरुणा पृष्टे सः अवदत् 'मम कुलविषये कथनेन किम्? अत्र मम ज्ञानं विस्तार्य भगवत्साक्षात्कारं प्राप्तुम् इच्छामि । ज्ञानप्राप्तिः साधनमार्गे अग्रे गमनं च मम लक्ष्यम्' इति । तस्य समुचितां दृष्टिं दृष्ट्वा गुरुः सहर्षः जातः ।(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)In a certain gurukula, the teacher tested students in many ways and accepted only the worthy. At one admission occasion, he asked the students, “What have you brought? Tell me about your family and background”. Most described the wealth, gold, or grain they had brought, and spoke of their fathers and grandfathers. But one young man had brought nothing and said nothing about his lineage. When the teacher asked why, he replied: “What is the use of speaking about my family? I have come here to expand my knowledge and attain realization of God. My aim is learning and progress on the path of discipline”. Seeing his right attitude, the teacher was delighted.
-
520
प्राप्तः आनन्दः अनुभोक्तव्यः
कदाचित् कश्चन शिष्यः गुरुणा दत्तस्य फलस्य आनन्दप्राप्त्यापेक्षया गुरुः किमपि तत्त्वं ज्ञापयितुम् इच्छति इति विचिन्त्य गुरुम् अनेकान् प्रश्नान् पृच्छति । यथा पिण्डे तथा ब्रह्माण्डे इत्येतत् तत्त्वं ज्ञापयितुम् एव दत्तं स्यात्? फलस्य भागे या रुचिः सा एव समग्रे अपि फले भवति इति आशयं ज्ञापयितुम् इच्छति वा? इत्यादयः प्रश्नाः कृता शिष्येण । अन्ते गुरुः 'फलस्य रुचिः कीदृशी अस्ति इति आदौ वद' इति उक्त्वा अनन्तरं कथयति 'मम व्यवहारस्य गूढार्थः कोSपि स्यात् इति चिन्तयन् भवान् आनन्दानुभवप्राप्तिं विस्मृतवान् । यः आनन्दः हस्तगतः स्यात् सः अवश्यमेव अनुभोक्तव्यः' इति । सर्वत्र विश्लेषणवादिता न शोभते इति तु सत्यं ननु?(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)A disciple, expecting some hidden teaching behind the fruit given by his teacher, asked many questions: “Is it meant to show the principle ‘as in the body, so in the universe’? Or to teach that the taste of a part is the same as the whole fruit?”. Finally, the teacher said: “First tell me how the fruit tastes. While thinking there must be some deeper meaning in my act, you forgot the joy of direct experience. The happiness that comes to hand must be enjoyed. Endless analysis is not always fitting”.
We're indexing this podcast's transcripts for the first time — this can take a minute or two. We'll show results as soon as they're ready.
No matches for "" in this podcast's transcripts.
No topics indexed yet for this podcast.
Loading reviews...
ABOUT THIS SHOW
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. E
HOSTED BY
सम्भाषणसन्देशः
Loading similar podcasts...